2026-02-08 07:40:24 by ambuda-bot
This page has not been fully proofread.
पारमात्मिकोपनिषत्
अशनायापिपासे च शोकमोहौ जरामृती ।
एताः षडूर्मयः प्रोक्ता देहिनां तु विशेषतः ॥ इति ॥
१९९
अस्माकं सुपुष्टिं सुतरां पुष्टिं ऐहिकं अस्मत्पितरं पवित्रं पितृ-
शब्देन पितृवंशजानां मातृवंशजानां सर्वेषामुपलक्षणम् ।
आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः ।
वैष्णवो नः कुले जातः स पुनस्तारयिष्यति ॥
स नोऽस्तु भूत्यै स परमात्मा नः भूत्यै भगवत्प्राप्तिरूपैश्वर्याय अस्तु
कमलम् ॥ ९ ॥
स एव नित्यं सकलाः समूर्तयः सुरतास्त्वनन्तास्ते
जयन्तो वियति क्षयाणां तत्तत्सवित्रे हरते पराय स्वाहा ॥ १० ॥
नित्यं वियति आकाशे यद्वा अनन्ता इत्यनेन आकाशास्ता
उच्यन्ते सुरताः रतिसहिताः सकलाः नृत्यगीतवाद्यादिकलासहिताः
समूर्तयः मूर्तिमन्तः जयन्तः जयशीलास्सन्तः ये तिष्ठन्ति ते सर्वे स एव ।
तु शब्दो विशेषद्योतकः । सद्वारकत्वेन यद्वा अन्तर्यामित्वेन-
ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च ।
नद्यः समुद्राश्च स एव सर्वे यदस्ति यन्नास्ति च विप्रवर्य ॥
वियति क्षयाणां आकाशे स्थानं प्राप्तानां "देवगृहा वै नक्षत्राणि
इति श्रुतेः । तत्सवित्रे त्तत्कर्मफलानुभवस्थानजनकाय हरते-
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान् ।
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ॥
इति भगवद्वचनात् । पराय-
ब्रह्माण्डे --
ब्रह्मा शंभुस्तथैवार्कश्चन्द्रमाश्च शतक्रतुः ।
एवमाद्यास्तथा चान्ये युक्ता वैष्णवतेजसा ।
"