2026-02-08 07:40:24 by ambuda-bot
This page has not been fully proofread.
१९४
वैष्णव- उपनिषदः
पुण्यः पोषकः परमात्मा यद्वा परमपावनः पुण्यां पोषिकां पुरुषे
पुरुषशब्दः साधारणः स्वकृपाकटाक्षविषयभूते पुरुषे पुरये शरीरपूर्वभागे
पादगुह्यनाभिहृदयकण्ठमुखेषु पुष्टयै ऐश्वर्यानुभवार्थं लक्ष्मीं निदधाति
स्थापयते निशि चोदितानां रात्रौ चकारात् सन्ध्याकाले च उदिताः
जाताः सुरदानवादयः " दिवा देवानसृजत नक्तमसुरान् " इति श्रुतेः । तां
राजि दीप्तिरूपां लक्ष्मीं हरन् तेषामैश्वर्यं हरन् अन्तां शिरसि स्थितां
निदधाति अयमेवार्थो मार्कण्डेयपुराणेऽवगम्यते-
सप्तस्थानान्यतिक्रम्य येषां लक्ष्मीः शिरः स्थिता ।
आयुरारोग्यमैश्वर्यं तेषां सम्यक्प्रहीयते ॥
एवंरूपेण मर्यादास्थापकाय तुभ्यम् ॥ ८ ॥
स नो भूतो यो वाऽमृतात्मा सुपुष्टिमस्मत्पितरं पवित्रं स
नोऽस्तु भूत्यै कमलं पराय स्वाहा ॥ ९ ॥
66
स परमात्मा नो भूतः न जातः " अमानोनाः प्रतिषेधे " इति ।
श्वेताश्वतरे-
न तस्य कश्चित् पतिरस्ति लोके
न चेशिता नैव च तस्य लिङ्गम् ।
स कारणं करणाधिपाधिपो
न चास्य कश्चिज्जनिता न चाधिपः ॥ इत्यादयः ॥
अमृतात्मा-
षड्भावषट्कोशषडूर्मिहीनं शुद्धात् परं निर्मलमप्रमेयम् ।
ब्रह्माद्यमेकं सदनं समयं भजन्ति ये तत्र भवन्ति धन्याः ॥ इति ॥
अस्ति जायते परिणमते वर्धते अपक्षीयते विनश्यतीति षड्भावविकाराः
अस्थिशुक्लमज्जाः पितृतः, त्वङ्मांसरुधिराणीति मातृतः, इति षट्कोशाः ।