This page has not been fully proofread.

पारमात्मिकोपनिषत्
 
महाब्धिश्रयणीयत्वान्महाश्रीरिति गद्यते ।
 
भण्डस्य दयिता भण्डी भण्डत्वाद्भण्डिका मता ॥
कल्याणरूपा भद्रास्मि काळी भद्रा प्रकीर्तिता ।
कलात्सतां स्वरूपत्वादपि काळी प्रकीर्तिता ॥
सुहृदां च द्विषां चैव युगपत्सदसद्विभोः ।
भद्रकाली समाख्याता मायाश्चर्यगुणात्मिका ॥
माया योग इति ज्ञेया यज्ज्ञानाज्ञानयोर्नृणाम् ।
पूर्णषाड्गुण्यरूपत्वात्स्मृता चाऽहं परात्परा ॥
शासनाच्छक्तिरूपाहं राज्यहं रञ्जनात्सताम् ।
सदा शान्तविकारत्वाच्छान्ताहं परिकीर्तिता ॥
मत्तः प्रक्रमते विश्वं प्रकृति: सास्मि कीर्तिता ।
श्रयन्ति यना चास्मि शृणामि दुरितं सताम् ॥
शृणोमि करुणां वाचं शृणोमि च गुणैर्जगत् ।
शरणं सर्वभूतानां रमेऽहं सर्वकर्मणाम् ॥
ईडिता च सदा देवैः शरीरं चास्मि वैष्णवम् ।
एतान्मयि गुणान् दृष्ट्ा वेदवेदाङ्गपारगाः ॥
गुणयोगविधानज्ञाः श्रियं मां संप्रचक्षते ।
 
साऽहमेवंविधा नित्या सर्वाकारा सनातना ॥ इति ॥
 
१९३
 
व्रजन्तीं सर्वस्यापि गतिभूतं तं परमात्मानं विन्दमानां प्राप्तवतीं
च चिन्तयन्तो ये तिष्ठन्ति तेषां भोग्यरूपाय " सोऽश्नुते सर्वान् कामान् सह
ब्रह्मणा विपश्चितेति" इति श्रुतेः ॥ ७ ॥
 
पुण्यां च पुण्यः पुरुषे पुरग्रे तां राजिमन्तां निशि चोदि-
 
तानां निदधाति पुष्टयै हरन् पराय स्वाहा ॥ ८ ॥
 
U 25