This page has not been fully proofread.

१९२
 
वैष्णव- उपनिषदः
 
मामात्मगुप्तां वहते स्वभूत्यै तां राजिमन्तां धूर्पूरयन्तीं
धूरसि ध्रुवाय स्वाहा ॥ ६ ॥
 
मां लक्ष्मीं आत्मगुप्तां आत्मभूतेन स्वेनैव गुप्तां भूत्यै लोकानामैश्वर्याय
वह वक्षसि वहते स्म भूतार्थसूचनत्वात् प्रळयकालेऽपीत्यर्थः । तां राजिमन्तां
लावण्यसंपत्सारभूतां धूर्धूरयन्तीं समग्रैश्वर्यगतिभूतां मां वहत इति
पूर्वत्रान्वयः धूरसि भारभूतोऽसि ध्रुवाय स्थिराय तुभ्यम् ॥ ६ ॥
 
यं चिन्तयन्तो निगमान्तरूपं यं विश्वरूपं परमात्मपुण्यं
 
तं विन्दमानां सकलं व्रजन्तीं तं दैवमुख्यं सुरतं भवाय
 
स्वाहा ॥ ७ ॥
 
यं निगमान्तरूपं " सत्यं ज्ञानमनन्तं ब्रह्म " इत्यादिवेदान्तप्रति -
पाद्यरूपम् । यद्वा यं विश्वरूपं—
 
यस्यास्यमभिद्यैर्मूर्धा खं नाभिश्चरणौ क्षितिः ।
 
इत्यादिविश्वरूपम् । यद्वा परत्वव्यूहविधावन्तर्याम्यर्चावतारादिरूपं
 
वा चिन्तयन्तः ध्यायन्तः सकलं स्वकलासहितत्वेन ।
 
लक्ष्मीतन्त्रे-
 
महालक्ष्मीः समाख्याता साऽहं सर्वाङ्गसुन्दरी ।
महाश्रीः सा महालक्ष्मीश्चण्डाचण्डी च चण्डिका ॥
भद्रकाली तथा भेदा काळी दुर्गा महेश्वरी ।
त्रिगुणा भगवत्पत्नी तथा भगवती परा ॥
एताः संज्ञास्तथान्याश्च तत्र मे बहुधा स्मृताः ।
विकारयोगादन्याश्च तास्ता वक्ष्याम्यशेषतः ॥
रक्षयामि जगत्सर्व पुण्यापुण्ये कृताकृते ।
महनीया च सर्वत्र महालक्ष्मीः प्रकीर्तिता ॥