This page has not been fully proofread.

पारमात्मिकोपनिषत्
 
परमेष्ठी पुमान्विश्वो निवृत्तः सर्व एव च ।
 
पञ्चैताः शक्तयः प्रोक्ताः परस्य परमात्मनः ॥
 
आचार्या वैष्णवी सूक्ष्मा लक्ष्मी: पुष्टिर्निरञ्जना ।
 
जीवनी मोहिनी माया नवैता विष्णुशक्तयः । इति ॥
 
१९१
 
ता विष्णुशक्तयः प्रभविष्णवे रामभद्राय अमितं भरत्रे मितरहित-
धनुर्भरणादमितंभरः तेन जनकप्रतिज्ञाप्रातिभरत्वधनुः स्वशक्तिभिस्सहस्र-
शोऽधाद्यः अत्र विश्वर्षिशब्दप्रयोगात् अत्यन्त श्रेष्ठत्वं वा । श्रुतिः–" विश्वा-
मित्रजमदग्नी वसिष्ठेनास्पर्धेता स एतज्जमदग्निर्विहव्यमपश्यत्तेन वै स
वसिष्ठस्येन्द्रियं वीर्यमवृक्त " इत्यादि ॥ ४॥
 
अब्जोऽजुपन्तः प्रपतत्पतन्तः पूंपूंपुषन्तः पुनयः प्रवाळ :
 
कंकं जनित्रे समतेजसं ते स्वाहा ॥ ५ ॥
 
अब्जः ब्रह्मा । भारते --
 
निशि सुप्त्वाथ भगवान् क्षपान्ते प्रतिबुध्य यः ।
पश्चाद्बुध्वा ससर्जापस्तासु वीर्यमवासृजत् ॥
 
तदण्डमभवद्दैवं सहस्रांशुसमप्रभम् ।
 
अहं कृत्वा ततस्तस्मिन् ससर्ज प्रभुरीश्वरः ॥
 
हिरण्यगर्भ विश्वात्मा ब्रह्माणं जलजं मुनिम् ।
 
भूतभव्यभविप्यस्य कर्तारमनघं विभुम् ॥ इति ॥
 
अजुषन्त: सृष्टिकर्तृत्वाभिमानेन त्वत्पादसेवामकुर्वन्तः । अब्ज इति
जातावेकवचनम् । यद्वा अण्डबाहुळयत्वाभिप्रायेण प्रपतत्पतन्तः पूंपुंपुषन्तः
शरीरं पोषयन्तः पुनयः प्रवाळ : प्रकर्षेण बालं वबयोरभेदः कंकं जनित्रे
समतेजसं ते एवं रजोगुणदोषदुष्टं ब्रह्माणं ते त्वं समतेजसं जनित्रे
66 नारायणाद्ब्रह्मा जायते " इति श्रुतयः तुभ्यम् ॥ ५ ॥