2026-02-08 07:40:23 by ambuda-bot
This page has not been fully proofread.
१९०
वैष्णव- उपनिषदः
अस्य परमात्मनो वक्षसि वाकं दधाना वरिष्ठं श्रेष्ठं वक्षः प्राप्य या
वसति वरां वाकं दधाना उत्कृष्टरूपां वाकं वाचं दधाना पुरुषाकाररूपां
वाचं दधाना श्रावयन्ती वसति ववृधे समस्तं जङ्गमाजङ्गमादिकं प्रति वृद्धिं
गता तस्यै वरिष्ठाय तस्मै ॥ २ ॥
अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य
जन्तोः तमऋतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशं
स्वाहा ॥ ३ ॥
अणोरणीयान्महतः आकाशादिभूपर्वतादिभ्यो महीयानात्मा अन्तः
प्रविश्य नियन्ता ह्यात्मा अस्य जीवस्य गुहायां हृदयगुहायां निहित: एवं -
भूतं तं अक्रतुं अकर्माणं पश्यति वीतशोकः धातुः प्रसादात् परमात्मनः
प्रसादाद्यः पश्यति वीतशोकः महिमानं महिमावन्तं ईश इत्यर्थः ॥ धातुः
प्रसादादित्यनेन -
नायमात्मा प्रवचनेन लभ्यो
न. मेधा न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यः
तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥
इति निर्हेतुकत्वं तस्य प्रसादात् ॥ ३ ॥
विष्णुर्वरिष्ठो वरदानमुख्यो यो विश्वर्षीन् ध्यायन्नकुर्वन्
विश्वं हीषद्विष्णवे याः प्रभविष्णवे ता अमितंभरत्रे स्वाहा ॥४॥
विष्णुः व्याप्तः परमात्मा वरिष्ठः श्रेष्ठः वरदानमुख्यः यः परशु-
रामरूपी विश्वर्षीन् जमदग्नीन् । पूजायां बहुवचनम् । ध्यायन् अकुर्वन्
विश्वं यथायोग्यत्वेन क्षत्रियवंशजातं ईषत्कार्यं हि विष्णवे याः शक्तयः-