2026-02-08 07:40:22 by ambuda-bot
This page has not been fully proofread.
पारमात्मिकोपनिषत्
त्रिमुहूर्त वसेदर्के त्रिमुहूर्तं जले वसेत् ।
त्रिमुहूर्त वसेद्गोषु त्रिमुहूर्त वनस्पतौ ॥
वनस्पतिगते सोमे स्त्रियं वा योऽधिगच्छति ।
स्वर्गस्थाः पितरस्तस्माच्च्यवन्ते नात्र संशयः ॥
वनस्पतिगते सोमे यस्तु हिंस्याद्वनस्पतिम् ।
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥
वनस्पतिगते सोमे यस्तु भुङ्क्ते परौदनम् ।
तस्य मासगतं पुण्यं दातारमधिगच्छति ॥
वनस्पतिगते सोमे नातिहेयांस्तु वाहयेत् ।
नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च ॥
वनस्पतिगते सोमे मन्थानं यस्तु कारयेत् ।
गावस्तस्य प्रणश्यन्ति चिरकालमुपस्थिताः ॥

सोमोत्पत्तिमिमां यस्तु गर्भिणीं श्रावयेत्स्त्रियम् १
ऋषभं जनयेत्पुत्रं सर्वज्ञं वेदपारगम् ॥
सोमोत्पत्तिमिमां यस्तु श्राद्धकाले सदा पठेत् ।
तदन्नममृतं भूत्वा पितॄणां दत्तमक्षयम् ॥
सोमोत्पत्तिमिमां यस्तु सर्वकाले सदा पठेत् ।
सर्व मानव आनोति सोमलोकं स गच्छति ॥ इति ॥
एवंविधाकारचन्द्ररूपेण गोप्त्रे तुभ्यम् ॥ १ ॥
१८९
वक्षो वसत्यस्य वरां वरिष्ठं वाकं दधाना वटधे समस्तं
तस्मै वरिष्ठाय वर स्वाहा ॥ २ ॥