2026-02-08 07:40:22 by ambuda-bot
This page has not been fully proofread.
१८८
वैष्णव-उपनिषदः
अग्नौ हुतं च दत्तं च सर्व सोमगतं भवेत् ।
तत्र सोमः समुत्पन्नः शीतांशुर्हिमलक्षणः ॥
अष्टाशीतिसहस्राणि विस्तीर्ण योजनानि तत् ।
प्रमाणं तत्र विज्ञेयं कलाः पञ्चदशैव हि ॥
षोडशी तु कलाप्यत्र त्वित्येोऽपि विधेर्बले ।
पपुः सोमवपुर्देवाः पर्यायेणानुपूर्वशः ॥
प्रथमां पिबते वह्निर्द्वितीयां पिबते रविः ।
विश्वेदेवास्तृतीयां तु चतुर्थी सलिलाधिपः ॥
पञ्चमीं तु वषट्कारः षष्ठीं पिबति वासवः ।
सप्तमीमृषयो दिव्या अष्टमीमज एकपात् ॥
नवमीं कृष्णपक्षस्य यमः प्राश्नाति वै कलाम् ।
दशमीं पिबते वायुः पिबत्येकादशीमुमा ॥
द्वादश पितरः सर्वे समं प्राप्नोति भागशः ।
त्रयोदश धनाध्यक्षः कुबेरः पिबते कलाम् ॥
चतुर्दशीं पशुपतिः पिबत्यन्त्यां प्रजापतिः ।
एवं पीतः कलाशेषश्चन्द्रमा न प्रकाशते ॥
कला षोडशिका या तु ह्यपः प्रविशते सदा ।
अमायां तु सदा सोम ओषधीः प्रतिपद्यते ॥
तमोषधिगतं गावः पिबन्त्यम्बुगतं च यत् ।
तत्क्षीरममृतं भूत्वा मन्त्रपूतं द्विजातिभिः ॥
हुतमभिषु यज्ञेषु पुनराप्यायते शशी ।
।
दिनेदिने कलावृद्धिः पौर्णमास्यां तु पूर्णिमा ॥
" नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे " ॥ इत्यादि ॥