2026-02-08 07:40:22 by ambuda-bot
This page has not been fully proofread.
पारमात्मिकोपनिषत्
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही ॥ इति ॥
तस्मै ॥ ६ ॥
दाक्षायण्यां प्रसृतं समस्तं सङ्कोचयित्वा सकलं वितानं
संवासयन् यः सकलं वरिष्ठं तस्मै प्रजेशाय धुरन्धराय स्वाहा ॥७॥
१८५
दाक्षायण्यदितिः तस्यां तं प्रसृतं उद्भूतं समस्तं दैतेयजातं सङ्कोच-
यित्वा अल्पावशिष्टं कृत्वा सकलं कलासहितं वितानं लोकस्याच्छादन-
भूतदेवजातं संवासयन् वरिष्ठं श्रेष्ठं मनुष्याणां रक्षणार्थे स्थापितवान् " त
एनं तृप्त आयुषा तेजसा वर्चसा श्रिया यशसा ब्रह्मवर्चसेनान्नाद्येन. च
तर्पयन्ति " इत्यादि प्रजेशाय प्रजानामीश्वराय धुरंधराय सर्वभारवहाय
तुभ्यम् ॥ ७ ॥
आशास्समस्ताः प्रतरन्ननु तमन्तस्तास्ता वसेद्यौः कमला
समस्ताः सा मे गृहे समधत्त पुष्टि स्वाहा ॥ ८ ॥
स्वभक्तानां स्वाराधकानां आशाः कामान् प्रतरन् प्रयच्छन् अनु
साकल्येन तं अन्तः हृदये परमात्मा तिष्ठति । या कमला लक्ष्मीः सापि
तास्ताः प्रविश्य वसेत् ।
श्रीविष्णुपुराणे-
त्वं माता सर्वभूतानां देवदेवो हरिः पिता ।
त्वयैतद्विष्णुना चाम्ब जगद्वया चराचरम् ॥ इति ॥
सर्वत्र व्याप्तिरुच्यते कथं व्याप्तिरिति चेत् यथा परमात्मना
जगद्व्याप्तं तथेति भावः सर्वात्मना सा लक्ष्मीः सैषा लक्ष्मीः मे गृहे पुष्टि,
U 24