This page has not been fully proofread.

१८४
 
वैष्णव-उपनिषदः
 
विश्वं बिभर्ति प्रसुरोऽभूदन्तं संराजवन्तं सकलं प्ररूढं स
नो वितत्य प्रहिणोतु पत्त्रे स्वाहा ॥ ४ ॥
 
विश्वं समस्तं प्रसुरोऽभूदन्तं तापत्रयादिना प्रकर्षेण सुरोऽभूदन्तं
संराजवन्तं समूहवन्तं सकलं कलासहितं प्ररूढं देवमनुष्याद्यनुकारेण समस्तं
वितत्य विस्तार्य विभर्ति स देवः नः श्रेयः प्रहिणोतु प्रयच्छतु पत्त्रे पदात्
त्रायत इति तस्मै ॥ ४ ॥
 
सो वा स्वरूपः समदृक समयो विधुदं तुदन् यो विधत्पदं
वा वियति प्रकाशं बृहते गुहेन तं बिम्बवन्तं समदं समयं
स्वाहा ॥ ५ ॥
 
यः परमात्मा देवासुरेषु समुद्रमथनवेळायां समदृक् समग्रः वञ्चितुं साव-
धानः विधुदं विधुश्चन्द्रः तं दमयतीति । दम इतीन्द्रियनिग्रहशक्तिसम्भवात्
विधुदो राहुः तं समदं मदसहितं समग्रं सावधानं बिम्बवन्तं राहुममृतपान-
वेळायां तुदन् हिंसां कुर्वन् तस्य राहोः वियति आकाशे पदं स्थानं गुहेन
ग्रहरूपेण बृहते पूर्वचन्द्राय विदधत् कल्पितवान् स एव स्वरूपः तस्मै ॥ ५ ॥
भूर्भुवं वा भुवो वा सुवो वा किञ्चित्स्वनन्तं सुषुवे समस्तं
 
सर्वस्य दातारमजरं जरित्रे स्वाहा ॥ ६ ॥
 
भूर्भुवं भूमेरपि भूमिं उत्तरकुरुदेशादिकं भुवो वा सुवो वा
अन्तरिक्षं स्वर्ग वा वाशब्दो लोकान्तरपरः । किञ्चित्स्वनन्तं अल्पशब्द-
वाच्यत्वेन स्वनन्तं शब्दयन्तं सुषुवे सृष्टवान् समस्तमपि सर्वस्य दातारं
चतुर्वर्गफलप्रदं अजरं जरारहितम् ।
 
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ इति॥
 
जरित्रे प्रकृतिद्वारेण जरित्रे ।