2026-02-08 07:40:22 by ambuda-bot
This page has not been fully proofread.
पारमात्मिकोपनिषत्
अशनायापिपासे च शोकमोहौ जरामृती ।
एताः षडूर्मयः प्रोक्ताः षडूर्मिरहितश्च सः ॥
१८३
महात्मा महान् विश्वं जगत् यः पाति रक्षति विमल: अपहतपाप्म-
त्वादिगुणः अमलाख्यः,
वसा शुक्रमसृङ्मज्जा मूत्रं विकर्णविण्णखाः ।
लेप्मादूषिका स्वेदो द्वादशैते नृणां मलाः ॥
इति द्वादशमलरहितः ककुत्त्रे श्रेष्ठाय पोषणादिशक्तिसहिताय तस्मै
वरदस्य वरप्रदानसमर्थस्य पुष्टयै,
भृगुः-
श्रीः सा सरस्वती चैव रतिः प्रीतिस्तथैव च ।
कीर्तिः शान्तिस्तथा पुष्टिस्तुष्टिरित्यष्टशक्तयः । इति ॥
पोषणरूपायै शक्त्यै परमात्मने ॥ २ ॥
धूर्नो वहन्तां रतये रमन्तां प्रभूतिमन्तस्समयं सुषुम्ना अं
राजिमतं सकलस्य गुप्त्यै स्वाहा ॥ ३ ॥
नः धूः
प्रापयताम् ।
भारं भरन्यासं वहन्तां " वह प्रापणे " इति । परमात्मा स्वयमेव
स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् ।
स्वत्तस्वधिया सार्धं स्वस्मिन्यस्यति मां स्वयम् ॥
इति सर्वदानुसन्धाय संयोज्य धूर्वहन्तां रतये तत्तद्विषयानुभवार्थ
तत्तत्स्थाने रमन्तां इन्द्रियाणां प्रभूतिं परमपुरुषानुभवैश्वर्यरूपां अन्तस्समयं
सुषुम्ना अन्तस्समये अं राजिमन्तं अकाराक्षरपूर्वकमन्त्रं प्रतिपादयन्तं
सकलस्य कला तु षोडशो भागः सर्वेन्द्रियोपरतस्य सुषुम्नानाड्यां गमनं च
भरन्यासं श्रुतवतः प्रयच्छति तस्मै ॥ ३ ॥