2026-02-08 07:40:22 by ambuda-bot
This page has not been fully proofread.
१८२
वैष्णव-उपनिषदः
शैलजादिरूपेण बिम्बवन्तं ककुदाय श्रष्टयाय भद्रे शुभाश्रयाय स्वाहा
जुहोत्यर्थः ॥ १० ॥
इति सप्तमोऽनुवाकः ।
अष्टमोऽनुवाकः
यत्सारभूतं सकलं धरित्री मोदमायेणानुभूतमनुविधं सूक्ष्मः
सुरेशः सकलं विभर्ति तस्मै सुरेशाय सकलं सुपुण्यं स्वाहा ॥ १ ॥
यत्सारभूतं प्रकृतिपुरुषयोर्बलभूतं यद्वा जगतः सकलं " षोडशकलो
पुरुष: " इति श्रुतेः । सकलासु हितां धरित्रीं धारणात् त्रायत इति
धरित्रीं प्रकृतेः मोदप्रायेणानुभूतं लीलाप्रायेण परमात्मनानुभूतं अनुविधं
अनुप्रविद्धं " तदेवानुप्राविशत् " इति श्रुतेः । सूक्ष्मः,
वै
"
66
वालाग्रशतभागस्य शतधा कल्पितस्य च ।
}
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ इति श्रुतेः ॥
अणोरणीयान " इति जीवापेक्षया सूक्ष्मः सुरेशः ब्रह्मादीनामीशः
सकलं चिदचिदात्मकं जगत् बिभर्ति । " व्यष्टनाद्रोदसी विष्णुरेते । दाधार
पृथिवीमभितो मयूखैः" इति तस्मै सुरेशाय पूर्वोक्तसुरेशः सकलं
ब्रह्मादिस्तम्बपर्यन्तं सुपुण्यं सुतरां पुण्यं यत्सुरेशाय तस्मै ॥ १ ॥
फलो वा एष लोकानामजरो महात्मा विश्वं यः पाति
विमलोऽमलाख्यस्तस्मै ककुत्त्रे वरदस्य पुष्टयै स्वाहा ॥ २ ॥
एष परमात्मा लोकानां भूरादीनां तत्तल्लोकानां देवमनुष्यादीनां
च फलः फलभूतः फलप्रदश्च । " फलमत उपपत्तेः " इति । अजर:
जरारहितः ।