This page has not been fully proofread.

पारमात्मिकोपनिषत्
 
इति वचनात् । गुरुं—
 
गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः ।
 
अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ॥ इति ॥
 
१८१
 
विसृष्ट्यादिसामर्थ्यज्ञानप्रदं सश्रीकं सर्वैश्वर्यवन्तं तं रायिरूपं
 
ऐश्वर्यरूपं रयिभूतभूत ऐश्वर्यस्यापि ऐश्वर्यभूतं रयिमत्सुरत्रः ऐश्वर्यवतां
देवानां रक्षिता अस्मै ।
 
आरोग्यं भास्करादिच्छेच्छ्रियमिच्छेद्धुताशनात ।
शंकराज्ज्ञानमन्विच्छेन्मोक्षमिच्छेज्जनार्दनात् ॥ इति ॥
ज्ञानप्रदोऽपि परमात्मैवेत्यभिप्रायेण गुरुशब्दप्रयोगः यद्वा तत्त-
दन्तर्यामित्वेन ॥ ९ ॥
 
रायां तत्त्रे रयिमादधात्रे रायो बृहन्तं रयिमत्सुपुण्यं
राराजिमन्तं रतये रमन्तं तं बिम्बवन्तं ककुदाय भद्रे स्वाहा ॥ १० ॥
रायां तत्त्रे स्वभक्तस्थतुच्छैश्वर्याणां पतनानन्तरं त्रात्रे रक्षित्रे,
यस्यानुग्रहमिच्छामि तस्य वित्तं हराम्यहम् ।
 
बन्धून् वा नाशयिष्यामि व्याधीनुत्पादयाम्यहम् ॥ इति ॥
रयिमादधात्रे अनश्वरैश्वर्यप्रदात्रे रायो बृहन्तं लीलाविभूत्यपेक्षया
नित्य विभूतेरधिकत्वात् " पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि "
इति श्रुतेः । रयिमत्सुपुण्यम्,
 
सत्पात्रदानेन भवेद्धनाढ्यो धनप्रकर्षेण करोति पुण्यम् ।
 
पुण्यादवश्यं त्रिदिवं प्रयाति पुनर्धनाढ्यः पुनरेव भोगी ॥
 
सुपुण्यं सुप्रसिद्धानां पुण्यप्रदं राराजिमन्तं देशकालाद्यपेक्षा-
राहित्येन निरन्तरैश्वर्यवन्तं रतये लीलारसानुभवार्थे रमन्तं परमात्मानं