This page has not been fully proofread.

१८०
 
वैष्णव- उपनिषदः
 
रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् " ॥ इति ॥ एवं श्रुतिस्मृतिषु प्रतिपादितं
सावित्रं रूपं पूर्वोक्तः परमात्मा स्वयमादधानः सावित्ररूपं परमं सुपुण्यम् ।
 
66
 
""
 
"
 
" आदित्यो वा एष एतन्मण्डलम् " इत्यादिश्रुत्यनुसारेण, " असावादित्यो
ब्रह्म इति श्रुतेश्च, आदित्यमण्डलान्तर्वर्ती श्रीवेङ्कटेश इत्यभिप्रायेण
सावित्ररूपं परमं सुपुण्यं इत्युक्तम् ॥ ७ ॥
 
यः पुण्डरीकः परमान्तरात्मा कम्राङ्गरूपं कमलं दधार
 
सासिष्वसन्तं सरसे रसाय स्वाहा ॥ ८ ॥
 
--
 
यः परमात्मा पुण्डरीकः पुण्डरीकः छान्दसत्वात् । परमान्तरात्मा
अत्रापि दहरपुण्डरीकमध्यवर्ती चेत्यर्थः । छान्दोग्ये - " अथ यदिदमस्मिन्
ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्ट-
व्यम् " इति ॥ यद्वा --- पुरुषव्याघ्रः कम्राङ्गरूपं कमनीयमङ्गरूपं यस्य तत् ।
कमलं जलमलङ्करोतीति कमलं दधार कमले दधार ब्रह्माणं सरसे रससहिते
द्रवेऽपि चेति रागात्मकरसस्ते पद्मे रसाय लोकसृष्टये ब्रह्माणं दधार तस्मै
भारते—
 
स्वयंभूस्तस्य देवस्य पद्मं सूर्यसमप्रभम् ।
 
नाभ्या विनिस्सृतमरुक् तत्रोत्पन्नः प्रजापतिः ॥ इति ॥ ८ ॥
रयीणां पतिं यजतं बृहन्तं रारागमुक्तं गुरुं सश्रीकं तं
 
रायिरूपं रयिभूतभूतं रयिमत्सुरत्रः स्वाहा ॥। ९ ॥
 
रयीणां पतिं ऐश्वर्याणां पतिं बृहन्तं "बृहद्ब्रह्ममहश्चेतिशब्दाः
पर्यायवाचकाः " इति पूर्वस्मिन्मन्त्रे प्रतिपादितं ब्रह्माणं परब्रह्मभूतं
रारागमुक्तं समग्रषाड्गुण्यपरिपूर्णैश्वर्यत्वात् तुच्छरूपपरत्वादिन्द्राद्यैश्वर्यराग-
 
रहितम्,
 
एते वै निरयास्तात स्थानस्य परमात्मनः ।