This page has not been fully proofread.

पारमात्मिकोपनिषत्
 
त्वं माता सर्वभूतानां देवदेवो हरिः पिता ।
 
त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ॥ इति ॥
 

 
परमस्य अभ्यधिकरहितस्य अस्य वक्षः पद्मावास इति वा ॥
भगवच्छास्त्रे—
 
महाप्रळयकाले तु सर्वलोकविनाशने ।
 
तस्मिन्नपि च काले तु वत्सरूपावसत्स्वयम् ।
श्रीवत्साङ्को हरिस्तस्मात् हरिवक्षसि सुस्थिता ।
प्रळयान्ते पुनस्सृष्टा पृथग्भूता च सा भवेत् ।
स्त्रीवेषेण च सर्वासां भेदमूर्तित्वमेयुषी ॥ इति ॥
 
"
 
सूक्ष्मं सावित्रं स्वयमादधानः " अन्तस्तद्धर्मोपदेशात् इत्य-
 
स्यार्थोऽत्राभिप्रेतः । छान्दोग्य-
 
"
 
- य एषोऽन्तरादित्ये हिरण्मयः पुरुषो
 
दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णस्तस्य यथा
कप्यासं पुण्डरीकमेवमक्षिणी " इति ॥ मैत्रायणीश्रुतिः-
 
मृतमच्युतं ध्रुवं विष्णुसंज्ञितं सर्वापरं धाम " इति ॥
 
योगयाज्ञवल्क्यः-
 
ईश्वरं पुरुषाख्यं च सत्यधर्माणमच्युतम् ।
 
66
 
स्थिरमचलम-
 
भर्गाख्यं विष्णुसंज्ञं च ध्यात्वामृतमुपाश्नुते ॥ इति ॥
दृश्यो हिरण्मयो देव आदित्यो नित्यसंस्थितः ।
 
यः सूक्ष्मः सोऽहमित्येव चिन्तयामः सदैव तु ॥
 
66
 
किञ्च - सूक्ष्मं सावित्रं इत्युक्तत्वात् " घृणिरिति द्वे अक्षरे । सूर्य इति
त्रीणि आदित्य इति त्रीणि । एतद्वै सावित्रस्याष्टाक्षरं पद५ श्रियाभिषिक्तम् ।
य एवं वेद । श्रिया हैवाभिषिच्यते " ॥ इति ॥ यजुषि --- " घृणिः सूर्य
 
1
 
आदित्यो न प्रभावात्यक्षरम् । मधु क्षरन्ति तद्रसम् । सत्यं वै तद्रसमापो ज्योती