2026-02-08 07:40:21 by ambuda-bot
This page has not been fully proofread.
१७८
वैष्णव- उपनिषदः
66
कस्मै परब्रह्मणे कस्मा इत्युक्तत्वात् ब्रह्मकं ब्रह्ममुखमिति परब्रह्मपरत्वेनोक्तत्वात् ।
" सदेव सोम्येदमग्र आसीत् ", " एकमेवाद्वितीयम्" इत्यादिश्रुत्यनुसारेण
पृथग्देवीभूषणायुधादिरहितत्वेन श्रुतिसिद्धम् । वेङ्कटाचले विद्यमानोऽपि
मन्त्रो वेङ्कटेशपरः ॥
पाने
येनैव दंष्ट्राग्रसमुद्धृता धरा बिभर्ति विश्वं ससुरासुरेन्द्रम् ।
नताः स्म तस्मै वरदाय पुंसे सर्वात्मने शेषविभूतिदायिने ॥ इति ॥
पद्मास्य वक्षाः परमः सुपुण्यः पद्मा जनित्री परमस्य वासः
सूक्ष्मं सावित्रं स्वयमादधानः सावित्ररूपं परमं सुपुण्यं स्वाहा ॥७॥
पद्मा लक्ष्मीः अस्य पूर्व प्रतिपादितस्य वेङ्कटेशस्य वक्षाः वक्षसि
विभक्तिव्यत्ययः परमः अर्चावतारे वरप्रदानादिषु समाभ्यधिकरहितः
सुपुण्यः,
वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन ।
वेङ्कटेशसमो देवो न भूतो न भविष्यति ॥
याश्च सप्तमहापुर्यः कीर्त्यन्ते मोददायकाः ।
ता वेङ्कटाद्रिपर्यन्ता ग्रामकोटचंशशक्तयः ॥
नास्ति पुण्यतमं तीर्थं स्वामिपुष्करिणीसमम् ।
सममस्तीति यो ब्रूयात्तत्समो नास्ति पातकी ॥ इत्यादि ॥
पद्मा जनित्री सर्वत्र जननी । ऋग्वेदे - " अहं रुद्राय धनुरातनोमि
ब्रह्मद्विषे शरवे हन्तवा उ । अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आवि-
वेश । अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तस्समुद्रे । " श्रीसूक्ते —
" मातरं पद्ममालिनीम् ", श्रीविष्णुपुराणे-