This page has not been fully proofread.

१७६
 
नारसिंहे-
 
वैष्णव- उपनिषदः
 
य एव वासुदेवोऽयं पुरुषः प्रोच्यते बुधैः ।
प्रकृतिस्पर्शराहित्यात् स्वातन्त्र्ये वैभवादपि ॥
स एव वासुदेवोऽयं साक्षात्पुरुष उच्यते ।
स्त्रीप्रायमितरत्सर्वं जगद्ब्रह्मपुरस्सरम् ॥ इत्यादि ॥
सहस्रशीर्षेत्यादिशब्दसिद्धः पुरुषः श्रीवेङ्कटेश:
 
प्रतिपादयति ॥
 
अत्र प्रथमया विष्णोर्देशतो व्याप्तिरीरिता ।
द्वितीययास्य विष्णोश्च कालतो व्याप्तिरीरिता ॥
विष्णोर्मोक्षप्रदत्वं च कथितं तु तृतीयया ।
एतावानिति मन्त्रेण वैभवं कथितं हरेः ॥
तस्माद्विराडित्यनया वदेन्नारायणाद्धरेः ।
प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता ।!
यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः ।
अनेनैव तु मन्त्रेण मोक्षश्च समुदीरितः ॥
तस्मादिति च सप्तान् जगत्सृष्टि: समीरिता ।
वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ॥
यज्ञेनेत्यनया चर्चा सृष्टेर्मोक्षस्य चेरितः ।
य एवमेतज्जानाति स हि मुक्तो भवेदिति ॥
पुरुषसंहितायां किं स्वरूपं आदित्यवर्णम्-
आदित्यवर्ण पुरुषं वासुदेवं विचिन्तय ॥ इति ॥
तमसस्तु पारे तमश्शब्देन प्रकृतिरुच्यते-
तमसः परमे दान्ते यस्ति प्रकृतिमण्डलम् ।
 
तस्य वैभवं
 
ऊर्ध्वमवस्थितं सर्वाणि विचित्य निर्माय नामानि कृत्वा ॥