This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">

 
</ignore>
<ignore lang="sa">
सामान्यवेदान्त - उपनिषदः
 
</ignore>
<p text="A" lang="sa"><add>
[अङ्गुष्ठतर्जन्थोर्मध्ये]</add> पैतृकं तीर्थ अङ्गुष्ठमूले ब्रह्मतीर्थM मध्ये अग्नितीर्थम् ।
 

 

न तिष्ठन्न हसन् न बुहुdbuदैर्न च लोमै :maiH गोकर्णाकृतिवत् कृत्वा माषमgnaजलं

पिवेbeत् । तेन त्रिराचामेत् । प्रथमं यः पिबेहग्वेdRgveदः प्रीणातु । द्वितीयं यः

पिबेद्यजुर्वेदः प्रीणातु । तृतीयं यः पिबेत् सामवेदः प्रीणातु । लोमाधरोष्ठमथर्व-

वेदः प्रीणातु । मुखमग्नितृप्तं सर्वं प्रोक्षति । यः पादौ प्रोक्षति यश्चक्षुषी

यश्चन्द्रमादित्यौ यन्नाभिं तेन पृथिवी यस्ततस्तेन विष्णुः । यच्छिरस्तेन रुद्रः ।

मूर्ध्नि शतकुबेरः । सर्वदेवत्यास्ते प्रीणन्तु । य एवं वेद । इत्युपनिषत् ॥
 
</p>
<trailer text="A" lang="sa">
इत्याचमनोपनिषत् समाप्ता
 
</trailer>
<title text="B" lang="sa">
आत्मपूजोपनिषत्
 
</title>
<p text="B" lang="sa">
ॐ तस्य निश्चिन्तनं ध्यानम् । सर्वकर्मनिराकरणमावाहनम् ।

निश्चलज्ञानमासनम् । समुन्मनीभावः पाद्यम् । सदामनस्क मर्घ्यम् । सदा-

दीप्तिराचमनीयम् । वराकृतप्राप्तिः स्नानम् । सर्वात्मकत्वं दृश्यविलयो गन्धः ।

दृगविशिष्टात्मानः अक्षता: । चिदादीप्तिः पुष्पम् । सूर्यात्मकत्वं दीपः ।

परिपूर्णचन्द्रामृतरसैकीकरणं नैवेद्यम् । निश्चलत्वं प्रदक्षिणम् । सोऽहंभावो

नमस्कारः । परमेश्वरस्तुतिर्मौनम् । सदासन्तोषो विसर्जनम् । एवं परिपूर्ण -

राजयोगिनः सर्वात्मकपूजोपचारः स्यात् । सर्वात्मकत्वं आत्माधारो भवति ।

सर्व निरामयपरिपूर्णोऽहमस्मीति मुमुक्षूणां मोक्षैकसिद्धिर्भवति ॥ इत्युपनिषत् ॥
 
</p>
<trailer text="B" lang="sa">
इत्यात्मपूजोपनिषत् समाप्ता
 
</trailer>
</page>