This page has not been fully proofread.

पारमात्मिकोपनिषत्
 
१७५
 
पुरुषः । सहस्राक्षः सहस्रपात् । भूत्वोदतिष्ठत् " ॥ इत्यादि ॥ महान्तं
" तेनेदं पूर्ण पुरुषेण सर्वम् " इति ॥ पूर्णत्वात्पुरुषः इति ॥
 
पाद्मे-
 
शब्दोऽयं सोपचारेण तथा पुरुष इत्यपि ।
 
निरुपाधौ वदन्त्येते वासुदेवे सनातने ।
सर्वलोकप्रतीत्या च पुरुषः प्रोच्यते हरिः ।
तं विना पुण्डरीकाक्षं कोऽन्यः पुरुषशब्दभाक् ॥
ब्रह्माद्याः सकला देवा यक्षतुम्बुरुनारदाः ।
ते सर्वे पुरुषांशत्वादुच्यन्ते पुरुषा इति ॥
उत्तररामायणे अगस्त्यः --
 
असौ राम महाबाहुः रतिमानुषचेष्टया ।
तेजोमहत्तया चासि संस्कार इति पूरुषम् ॥
 
हरिवंशे-
 
गोवर्धनादिधरणीनाथ नन्दसुतोऽपि सन् ।
पुरुषस्यांशभूतं त्वामादधन्निरणे वही ॥
 
स्कान्दे-
 
यदा भास्करशव्दोयमादित्ये प्रतितिष्ठति ।
यदा चामौ बृहद्भानुर्यदा वायौ सदा गतिः ॥
तथा पुरुषशब्दोऽयं वासुदेवेऽवतिष्ठति ।
यदा शङ्करशब्दोऽयं यथा देवे व्यवस्थितः ॥
श्रीविष्णुपुराणे-
 
देवतिर्यङ्मनुष्येषु पुंनामा भगवान् हरिः ।
श्रीर्नाम लक्ष्मीमैत्रेय नानयोर्विद्यते परम् ॥