This page has not been fully proofread.

पारमात्मिकोपनिषत्
 
श्रीप्रदत्वाच्छ्रियो वासाच्छब्दशक्तया च योगतः ।
रूढ्या श्रीशैल इत्येतन्नाम चास्य गिरेर्भवेत् ॥
बहूनि चान्यनामानि कल्पभेदाद्भवन्ति हि ॥
सर्वपापानि वें प्राहुः कटस्तद्दाह उच्यते ।
सर्वपापदहो यस्माद्वेङ्कटाचल इत्यभूत् ॥
कलिदोषपरीतानां नराणां पापचक्षुपाम् ।
 
वेङ्कटेशात्परो देवो नास्त्यन्यः शरणं भुवि ॥ ३॥
 
१७३
 
राकामह सुहवा: सुष्टुती हुवे शृणोतु नः सुभगा बोधतु
त्मना सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरः शतदाय-
मुक्थ्यं स्वाहा ॥ ४ ॥
 
राका परमपुरुषरञ्जनाद्राका यद्वा रातीति राका परमपुरुषरञ्जन -
योग्या अहं तापत्रयाभिभूतोऽहं यद्वा चतुर्विधपुरुषार्थकामोऽहं सुहवां
शोभनहवां लक्ष्म्याराधनं अधिकं शोभनार्थमेव नाभिचारनिमित्तम् ॥
श्रीविष्णुपुराणे-
 
सत्वेन शौचसत्याभ्यां तथा शीलादिभिर्गुणैः ।
धनैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥
साध्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।
स शूरः स च विक्रान्तो यं त्वं देवि निरीक्षसे ॥
सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः ।
 
पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे । इति ॥
 
चतुर्विधपुरुषार्थेष्वपि लक्ष्म्या एव प्राधान्यात् सुहवां इत्युक्तम् ।
 
सुष्टुती सुषन्ति शोभनरूपया स्तुत्या हुवे आह्वये शृणोतु नः आर्तनादं
शृणोतु यद्वा मम विज्ञापनं सुभगा,