2026-02-08 07:40:20 by ambuda-bot
This page has not been fully proofread.
१७२
वैष्णव- उपनिषदः
पुष्कराद्रिं प्रशंसन्ति मुनयस्तत्त्वदर्शिनः ।
गिरावस्मिन् तपस्तेपे सोऽपि च स्वाभिवृद्धये ॥
तस्मादाहुर्वृषाद्रिं तं मुनयो वेदपारगाः ।
शातकुम्भस्वरूपत्वात् कनकाद्रिं च तं विदुः ॥
द्विजो नारायणः कश्चित् तपः कृत्वा महत्पुरा ।
पश्चादश्वस्य नामा च व्यपदेशं मुरारितः ॥
वैकुण्ठादागतत्वेन वैकुण्ठाद्विरिति स्मृतः ।
हिरण्याक्षविनाशाय प्रह्लादानुग्रहाय च ॥
नारसिंहाकृतिं लेभे यस्मात्तस्मात्स्वयं हरिः ।
सिंहाचल इति प्राहुस्तस्मादेव मुनीश्वराः ॥
अञ्जनाद्रौ तपः कृत्वा हनूमन्तं व्यजायत ।
तदा देवाः समागत्य देवकार्यार्थ कारकम् ॥
यस्मात्पुत्रं मम सुतं जग्मुस्तस्मादमुं गिरम् ।
अञ्जनाद्रि वराहाद्रिं वराहक्षेत्रलक्ष्मतः ॥
नीलस्य वासुरेन्द्रस्य यस्मान्नित्यमवस्थितिः ।
तस्मान्नीलगिरिं नामावदंस्ते तं महर्षयः ॥
वेकारोऽमृतबीजं तु कट ऐश्वर्यमुच्यते ।
अमृतैश्वर्यसङ्घत्वाद्वेङ्कटाद्रिरिति स्मृतः ॥
अयं कदाचिद्देवानां श्रीनिवास इवाबभौ ।
श्रीनिवासगिरिं प्राहुस्तस्माद्देवा दिवौकसः ॥
आनन्दाद्रिमिमं प्राहुर्वैकुण्ठपुरवासिनः ।
प्राहुर्भगवतः क्रीडाप्राचुर्यात्तु तवासुराः ॥