This page has not been fully proofread.

पारमात्मिकोपनिषत्
 
66
 

 
१७१
 
रयिमद्विधानं रयिः इत्यनेन " ऋचः सामानि यजूंषि । सा हि श्रीरमृता
सताम् " इति श्रुत्युक्तं विधानं विधिः श्रुतिप्रसिद्ध इत्यर्थः । अनेन शास्त्रयोनित्वं
दर्शितम् । कुत्रे ककुदि स्थिताय विकटाय वेङ्कटाय । ऋग्वेदे "अरायि
काणे विकटे गिरिं गच्छ सदान्वे शिरिंबिठस्य सत्त्वभिस्तेभिष्टा चातयामसि '
इति ॥ हे अरा ऐश्वर्यहीने काणे एकाक्षिन् अन्धस्य गमने सामर्थ्या-
भावात्काणस्य यथाकथंचित् गमनयोग्यता संभवतीति काणेत्युक्तम् । विकटे
गिरिं गच्छ वेङ्कटगिरिं प्रति गच्छ " चतुर्हतो ह वै नामैषः । तं वा
एतं चतुर्हत सन्तम् । चतुर्होतेत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि
देवाः ॥", इन्द्रो ह वै नामैपः । तं वा एतमिन्द्र सन्तम् । इन्द्र
इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः ॥ " इति श्रुतेः
परोक्षणोक्तम् । सदान्वे सर्वदा अन्वेषणं कुरु ॥ यद्वा सर्वदा अन्वेषय शिरिं-
बिठस्य श्रीपीठस्य,
 
66
 
स्वामिपुष्करिणीतीरे कोटिकन्दर्पमूर्तिमान् ।
 
"
 
आस्ते लक्ष्म्या च धरया रमन् षोडशवार्षिकः ॥ इति ॥
सत्त्वभिः सात्त्विकगुणैः तेभिः तैः त्वा त्वां चातयामसि चातयामः
 
विनाशयामः ।
 
पाद्मे-
 
---
 
स्वामिपुष्करिणीतीरे सर्वान्तर्याम्यधोक्षजः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥
चिन्तितस्य तु विद्या तु चिन्तामणिमिमं जगुः ।
केचिद्दानप्रदत्वाच्च ज्ञानाद्रिरिति तं विदुः ॥
सर्वतीर्थमयत्वाच्च तीर्थाद्रिं प्राहुरुत्तमाः ।
 
पुष्कराणां च बाहुळयात् गिरावस्मिन् सरस्सु च ॥