This page has not been fully proofread.

१७०
 
वैष्णव- उपनिषदः
 
दंष्ट्राणां च तु तीक्ष्णत्वं सटाभिः स्कन्धसङ्कटम् ।
नररूपं वपुः कृत्वा मानुषत्वे व्यवस्थितः ॥
सुदारुणं महद्रूपं शत्रूणां साधनाय च ।
नखैस्तीक्ष्णैः सुदंष्द्दैश्च चतुर्भिर्बाहुभिर्युतम् ॥
नागराश्च किलोद्युक्ता हिरण्य पुरवासिनः ।
अपराहूणे महासिंहं पर्वताग्रे प्रतिष्ठितम् ॥
सहस्रादित्यसङ्काशं ज्वलन्तं प्रभया युतम् ।
आगच्छन्तं समुत्प्रेक्ष्य विद्रुता भयमोहिताः ॥
अपराहूणे मन्दभूते रक्तादित्यकरप्रभे ।
शीघ्रमुच्चार्य वेगेन मन्दिरं प्राविशद्धरिः ॥
इत्यादि ।
 
शीघ्रं चापं च गृह्णन्तं तत्प्रमुच्यासिमुत्तमम् ।
 
उत्पत्य खङ्गं दृष्ट्वा तं हिरण्यकशिपुं रिपुम् ॥
 
एकेनैव च हस्तेन खड्गं जग्राह तस्य तम् ।
अन्येन पाणिना चारु समालम्व्यादिकङ्कतम् ।
 
अस्त्रेण सह संयोज्य बिभिदे तद्विधा हरिः ॥ इति ॥
 
साराजिमतं सर्वैश्वर्यवन्तं कवीनां ज्ञानिनां यद्वा भक्तानां
साराजिमन्तं साम्राज्यं सजयं जयसहितं सहस्रं अपरिमितं तस्मै प्रहलादाय
सुयन्त्रे भगवद्भक्ताय यद्वा परमात्मज्ञानिने सुशेवधये निधिभूताय ॥ २ ॥
रयिः ककुद्मान् दधद्विनष्टं रयिमद्विधानं तस्मै ककुत्रे
 
विकटाय पित्रे स्वाहा ॥ ३ ॥
 
रयिः ऐश्वर्यरूपः ककुद्मान् वृषभाववान् यद्वा श्रेष्ठः दधद्विनष्टं
येन केन प्रकारेण यस्मै कस्मैचित् विनष्टं पदार्थ वरप्रदानादिमुखेन प्रापयन्