2026-02-08 07:40:19 by ambuda-bot
This page has not been fully proofread.
पारमात्मिकोपनिषत्
१६९
समये सवित्रे फलप्रदाय सुरेशाय ब्रह्मरुद्रादीनामीश्वराय सुरवृन्दकर्त्रे
देवसमूहकर्त्रे तस्मै तुभ्यम् ॥ १ ॥
66
यो वा नृसिंहो विजयं विभर्षि साराजिमन्तं रयिदं
कवीनां साराजिमन्तं सजयं सहस्रं तस्मै सुयन्त्रे सुशेवधये
स्वाहा ॥ २ ॥
यः परमात्मा हिरण्यवधादिना विजयं बिभर्षि । विष्णुसूक्ते
प्रतद्विष्णुस्तव ते वीर्याय । मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुपु
त्रिषु विक्रमणेषु । अधिक्षियन्ति भुवनानि विश्वा" । प्रकर्षेण तस्माद्धि-
रण्यवधादिकारणादाविर्भूतो नृसिंहो न मृगः किन्तु विष्णुः भीमः दैत्य-
दानवरक्षसां भयंकरः,
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ इति ॥
कुचरो गिरिष्ठाः रत्नकूटपर्वते स्थितः सन् पादचारी भूत्वा
सन्ध्याकाले हिरण्यवधादिकं कृतवान् । यस्य विष्णोरुरुपु महत्सु त्रिषु
विक्रमणेषु भुवनानि अधिक्षियन्ति अधिक्षिप्तानि भवन्ति । तस्माद्विष्णुः
वीर्यवत्तया स्तवत इति ॥ श्रीमद्वैखानसेऽखिलसंहितायामप्येवमेवोक्तम् —
नरसिंहः सुभविता कस्माच्च भुवनेश्वरः ।
इत्युपक्रम्य ।
U 22
गत्वा तत्पुरसा तु पर्वतं शृङ्गिरूपणम् ।
रत्नकूटमिति ख्यातं पर्वतं सुमनोहरम् ॥
तस्यैव शिखरे रम्ये दृष्टः स भगवान् किल ।
नारायणस्तु सिंहत्वे मुखं कृत्वा च दारुणम् ॥