This page has not been fully proofread.

१६८
 
वैष्णव- उपनिषदः
 
नरसिंहवपुः कृत्वा दिवारात्रौ व्यपोह्य च ।
सन्ध्यायां तु वधं कुर्यात् स्वीयाङ्के तु नखाङ्कुरैः ॥
बाह्यमभ्यन्तरं भित्त्वा जीवाजीवैर्नखैः शुभैः ।
 
एवं दैत्यवधं कृत्वा देवदेवो जगत्पतिः ॥ इति ॥
 
सुखरं खुराणां नृसिंहनखापेक्षया सुकुमारनखं किंचित्स्वनन्तं
वज्राधिकनखाग्रैः हिंसितत्वात् सन्धितुमशक्याद्वा प्रभुत्वाद्वा किञ्चित्स्व
नन्तमहिंसीत् हिंसितवान् तस्मै नृसिंहाय नरसिंहरूपिणे सुरेशो ब्रह्मा रुद्रः
तस्य पित्रे रक्षकाय तस्मै ॥ १० ॥
 
इति षष्टोऽनुवाकः
 
सप्तमोऽनुवाकः
 
तपोनिधिं तपसां रयिदं रयिमायुरङ्गं व्यसनौघहन्तु
सासिष्वसन्तं सवने सवित्रे तस्मै सुरेशाय सुरवृन्दकर्त्रे स्वाहा ॥ १ ॥
 
"
 
तपोनिधिं "ऋतं तपः सत्यं तपः श्रुतं तपश्शान्तं तपो दमस्तपः शमस्तपो
दामं तपो यज्ञं तपो भूर्भुवस्सुवर्ब्रह्मेतदुपास्वैतत्तपः " इति, तपः स्वधर्मवर्तित्वम्,
तप इति तपो नानशनात् परम् " इत्यादिश्रुतिसिद्धानां तपः शब्दवाच्या-
नामावासभूतम् । तपसां रयिदं तपसामप्यैश्वर्यप्रदम् । रयिं ऐश्वर्यभूतम् ।
व्यसनोयहरू आपन्निवारकं स्वभक्तस्वापन्निवारकत्वं ब्रह्मादेरदृष्टम् ।
सासिष्वसन्तं असिसहितः सासिः प्रतिध इत्यर्थः तेष्वसन्तम् । सवने