2026-02-08 07:40:19 by ambuda-bot
This page has not been fully proofread.
१६६
वैष्णव- उपनिषदः
यः परमात्मा कुं भूमिं धरमाण: आधारकूर्मादिरूपेण
धारयमाणः कुं धरां धरतां गोवर्धनपर्वतभङ्गभयभीतानां भयनिवारणार्थं
वर्षादिभयनिवारणार्थं च गोपान् प्रति कुं धरतां पर्वतानां सानुषु
वसन्त्वित्यध्याहारः अवोचत् इत्युक्तवान् औचित्यवशात् समीचीनार्थश्च -
कारनियमाच्च तां भूमिं सानुमन्तः पर्वताश्च गोपानां रक्षणार्थं स्वतेजसा-
सहकार्यनपेक्षं यत्तत्तेजः समुदाहृतम् ॥ इति ॥
विदधत् भृतवान् वरिष्टाय श्रेष्ठाय वरप्रदाय पित्रे रक्षकाय तस्मै
तुभ्यम् ॥ ५ ॥
पृथां प्रस्खलन्तीं प्रमृज्यामृजाङ्गीं य ऊर्वोरुपादधात् तस्मै
मुख्याय वरदाय पित्रे स्वाहा ॥ ६ ॥
पृथां भूमिं प्रस्खलन्तीं जलमज्जनायासेन प्रकर्षेण स्खलन्तीं
यथास्थाने स्थातुमसमर्थ अमृजाङ्गीं पङ्कादिभिर्लिप्तशरीरां प्रमृज्य शुद्धिं
कृत्वा ऊर्वोरुपादधात् ऊरुमध्ये स्थापितवान् तसौ मुख्याय वरदाय
पित्रे ॥ ६ ॥
यां गामुशन्तीमुशन्नभिपूर्णामारक्तनीलाममृतां रजन्तीमा-
लालयन् लालितकङ्कणाङ्गीं तस्मै प्रजेशाय वरदाय पित्रे
स्वाहा ॥ ७ ॥
यां गां भूमिं उशन्तीं आक्रोशन्तीं भूतभूभारपीडया क्रोशन्तीं
वराहरूपेणावतीर्य उशन् शब्दं कुर्वन् अभिपूर्णा स्थावरजङ्गमादिभिः समृद्धां
आरक्तनीलां रक्तनीलवर्णी अमृतां जलेनार्द्रा रजन्तीं रजसाभिप्लुतां
लालितकङ्कणाङ्गीं जवोद्धरणवेळायां लालितानि जलकणानि यद्वा कङ्कणानि
यस्याः सा लालितकङ्कणाङ्गी तां भूमिं आलालयन् यः परमात्मा तिष्ठति
प्रजानामीशाय प्रजेशाय वरदाय पित्रे तस्मै ॥ ७ ॥