This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
आचमनोपनिषत्
 
</ignore>
<ignore lang="sa">

 
</ignore>
<p lang="sa">
माया करोति । तैलमध्ये यथा यथा मक्षिका एकदेहिमध्ये ब्रह्म दशधा रूपं

विचरति । चक्षुःप्राणमनोबुद्धि पञ्चेन्द्रियाणि पञ्चतत्त्वानि तथा घटघट-

मध्ये बहुचन्द्रोऽपि दृश्यते प्रकाशितः सर्वलोकमध्ये ब्रह्मणो रूपं विचरति

तथा घटघटमध्ये बहुचन्द्रोऽपि दृश्यते । अद्वैतं कथितं येन पुरुषोऽमूढो

भवति । देवासुरमुनिमनुप्याणां अधः ऊर्ध्वं चतुर्दिशम् । भुवर्णायुदेवादाव्य-

देहितेरसकारो दृश्यते रसकाराकारमध्ये भवति निराकारः अकारउकार -

मध्ये ब्रह्म परिपूर्णं सत्यसत्यं वेदवाक्यं वेदशास्त्रप्रतिभासितं कैवल्यं

द्वैताद्वैतरहितं मनोमय आनन्दमयतत्त्वमयतेजोमय सर्वमयः विष्णुवृक्ष-

फलं उत्पन्नं परमहंसपूर्णोऽपि जायते । ज्ञानं माता विज्ञानं पिता सगुणब्रह्म

निर्गुणब्रह्मार्पितं अष्टमी च निर्गुणावस्था ब्रह्म शरीरज्ञानलहरी ब्रह्मणः ।

ब्रह्मणो यज्ञोपवीतमनिष्टं गंभीरग्रहे क्षमसर्ववैराग्यप्रभावेन सन्तोषलाभ-

समस्तगुणोऽपि जायते । परमहंसपुरुषस्य द्वितीयं भेदं यथा जलरहिते भिन्नं

प्राणप्रीतेयन् । द्वितीयवस्तुरहितः अखण्डितं वस्तु मध्ये प्रविष्टं अर्धस्थाने

अर्धमृचस्थाने आत्मा दृश्यते आत्मव्यापकं ब्रह्मज्ञानविज्ञानम् ॥
 
</p>
<trailer lang="sa">
इति अद्वैतोपनिषत् संपूर्णा
 
</trailer>
<title text="A" lang="sa">
आचमनोपनिषत्
 
</title>
<p text="A" lang="sa" merge-next="true">
ॐ आचमनविधिं व्याख्यास्यामः । जङ्घे पाणिपादौ प्रक्षाल्य

प्राङ्मुख उदङ्मुखो वा बद्धशिखो यज्ञोपवीती । ब्राह्मणस्य दक्षिणे हस्ते पञ्च

तीर्थानि भवन्ति । अङ्गुल्यग्रे देवतीर्थं कनिष्ठिकामूले आर्षिकं तीर्
 
थं</p>
</page>