This page has not been fully proofread.

पारमात्मिकोपनिषत्
 
सङ्क्षिप्य सारमादाय शाणोल्लिखितरत्नवत् ।
 
धातुर्विखनसा नाम्ना मरीच्यादीन् सुतान् मुनीन् ॥
अबोधयदिदं शास्त्रं सार्धकोटिप्रमाणतः ।
 
मुनिभिस्तस्य सङ्क्षिप्तं चतुर्लक्षप्रमाणतः ॥
 
कल्पेकल्पे महाविष्णोरुद्भूतं पूर्वतस्सदा ।
तस्माद्वैदिकमाचारं यः कर्तुं भुवि वाञ्छति ।
 
तस्येदं शास्त्रमित्युक्तं नेतरेषामितीरितम् । इति ॥
देवशब्दसामर्थ्यान्मत्स्यादिरूपेण क्रीडते तुभ्यम् ॥ ३ ॥
 
क्ष्मामेकां सलिलावसन्नां श्रुत्वा स्वनन्तीमनु स्वयं भूत्वा
वराहो जहार तस्मै देवाय सुकृताय पित्रे स्वाहा ॥ ४ ॥
 
१६५
 
क्ष्मां भूमिं एकां सलिलावसन्नां प्रळयजलाक्रान्तां स्वनन्तीं
क्रोशन्तीं श्रुत्वा अनु पश्चात् स्वयं वराहो भूत्वा जहार उद्धृतवान् देवाय
द्योतमानाय सुकृताय सुकृतं कृतव पित्रे रक्षकाय ।
 
शान्तिपर्वणि-
 
आदौ महार्णवे घोरे भाराक्रान्तामिमां पुनः ।
तदा बलादहं पृथ्वीं सर्वभूतहिताय वै ॥
 
सत्त्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम् ।
 
आगमिष्यामि संस्थातुं वाराहं रूपमास्थितः ।
इति तस्मै ॥ ४ ॥
 
यः कुं धरमाणः कुं धरतां कुं धरतामित्यवोचत् तां सानु-
मन्तो विदधत्स्वतेजसा तस्मै देवाय वरिष्ठाय वरप्रदाय पित्रे
स्वाहा ॥ ५ ॥