2026-02-08 07:40:19 by ambuda-bot
This page has not been fully proofread.
१६४
किञ्च
वैष्णव- उपनिषदः
आधे कलियुगे प्राप्ते सोमकेन हृता त्रयी ।
इत्यारभ्य ।
अथ मत्स्याकृतिः श्रीशः प्रविश्याम्बुधिमध्यगम् ।
निर्मथ्य सोमकं वेदानदात् कञ्जनयोनये ॥
तादृशं पुण्डरीकाक्षं स्तोत्रैः सन्तोष्य पद्मभूः ।
उवाच वचनं प्रेम्णा दण्डवत्प्रणिपत्य च ॥
तान्त्रिकेण पुरा प्रोक्तं मार्गेण भवदचनम् ।
न प्रसिद्ध्यति चास्माकं मनः कमललोचन ॥
वैदिकेन त्वदर्चा वै यथापूर्वं वदाच्युत ।
इत्युक्तो भगवान् देवः शास्त्रं श्रुतिपथागतम् ॥
सहस्रकोटिभिः श्लोकैः सख्यातं बहुविस्तरम् ।
सूत्रे मूलमनाद्यन्तं कल्पे कल्पे समाश्रितम् ॥
उवाच जगतां प्रीत्यै यज्ञानां पूरणाय च ।
मूलं सर्वागमानां च पुराणानां तथैव च ॥
स्मृतीनां सर्वसूत्राणां प्रत्यङ्गोपाङ्गशोभनम् ।
श्रुत्युक्तं तदिदं शास्त्रं वैखानसमहार्णवम् ॥
इत्युक्त्वा भगवानाद्यस्तत्रैवान्तरधीयत ।
ततः परं चतुर्वक्त्रो जटाकाषायदण्डभृत् ॥
नैमिशारण्यमासाद्य मुनिबृन्दनिषेवितम् ।
तपस्तप्त्वा चिरं कालं ध्यायंस्तेजस्तु वैष्णवम् ॥
पश्चादपश्यद्विष्णूक्तमागमं विस्तरं तथा ।
सश्रौतं च स्वमात्रं च वेदमन्त्रैरभिष्टुतम् ॥