This page has not been fully proofread.

पारमात्मिकोपनिषत्
 
१६३
 
यः परमात्मा स्वौजसा परबलाहरणशक्त्या सर्वं जगत् आदधाति
स्थापयति यः परमात्मा बलभद्ररूपी पापीयांसं प्रलम्बासुरं अनुपदं लीलाकाले
 
गृहीत्वा गच्छन्तं पदमनुसृत्य आहिंसत् हिंसितवान् ।
 
श्रीवैखानसे-
 
योगनिद्रे ममादेशात् पातालतलसंश्रयान् ।
 
एकैकशश्च षड्गर्भान् देवकीजठरे नय ॥
हतेषु तेषु कंसेन शेषाख्यांशस्ततो मम ।
अंशांशेनोदरात्तस्याः सप्तमः स भविष्यति ॥
गोकुले वसुदेवस्य तथान्या रोहिणी तथा ।
 
तस्य संभूतिसमये स विनेयस्त्वोदरम् ॥ इति ।
 
सुपुण्यं सुतरां पुण्यस्वरूपं पुण्यात्मकं पुण्यशब्दवाच्यानामन्तर्या-
मिणं पुण्यं वितानं वितानरूपत्वेन दाधार शेषरूपेण कृष्णं दाधार
सङ्कर्षणमूर्तित्वेन क्रीडमानस्तस्मै । यद्वा पापीयांसं सर्वयज्ञविनाशकं
हिरण्याक्षपदमनुसृत्य अहिंसत् हिंसितवान् सुपुण्यं पुण्यात्मकं यज्ञ " यज्ञो
वै विष्णुः " इति पुण्यं वितानं दाधार त्रयीसंवरणं यत इति वेदमूलत्वात्
आच्छादकं दाधार स्थापितवान् ।
 
भृगुः
 
हिरण्याक्षोऽपि दैत्येन्द्रो बलवान् बलिनां वरः ।
परेण गर्वाद्दुर्बुद्धिर्यज्ञविद्वेषकोऽभवत् ॥
 
तद्यथाकृतवान्विष्णुर्नरसूकरमूर्तिमान् ।
हत्वा स दैत्यं सबलं पश्चाद्यज्ञोनुवर्तयन् ॥
 
यज्ञवराहरूपिणौ इत्यर्थः ।