2026-02-08 07:40:18 by ambuda-bot
This page has not been fully proofread.
१६२
वैष्णव - उपनिषदः
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ।
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥
इति शेषदिग्गजादिभिर्धृतं दिग्गजादीनामाधारत्वेन अधस्तात्
धारयन् कूर्मरूपेणेत्यर्थः ॥ १ ॥
यः स्वयं सृष्टमात्मना गुप्तमनुसंदितानमचरं चरन्तं स्वयं
क्रीडं क्रीडयन् क्रीडान्तरमनुप्राविशत् स्वाहा ॥ २॥
यः परमात्मा स्वयं सृष्टं स्वेन सृष्टं आत्मना स्वेनैव गुप्तं
रक्षितं अनुसन्दितानं साकल्येन जीवस्य चात्मनः फलितं अचरं स्वातन्त्र्येण
गतिरहितं चरन्तं जीवं यद्वा स्थावरजङ्गमात्मकं तं प्रत्यात्मानं
अप्रमेयोऽनियोज्यश्च यत्र कामागमो वशी ।
मोदते भगवान् भूतैर्बालः क्रीडनकैरिव ॥ इति ॥
स्वतन्त्रत्वात्प्रतिमाप्रायेण क्रीडं क्रीडयन् अन्योन्यं क्रीडयन् स्वयं
क्रीडान्तरं वारोहादिरुक्तं अनु साकल्येन प्राविशत् । यद्वा कूर्मविषयत्वेन
स्वसृष्टमन्दरपर्वतं समुद्रमथनेन मन्थरस्योपरि चरन्तं गतिं कुर्वन्तं स्वयं
क्रीडयन् तथारणेन क्रीडयन् क्रीडान्तरममृतप्रदानार्थं स्त्रीवेषधारणादिकं
साकल्येन प्राविशत् ।
देवतिर्यङ्मनुष्याख्यचेष्टामत्ति स्वलीलया ।
जगतामुपकाराय मनःकर्मनिमित्तजः ॥
समस्त कल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्भूतभूतसर्गः ।
इच्छागृहीताभिमतोरुदेहः सनाथिताशेषजगद्धितोऽसौ ॥
इति तस्मै ॥ २ ॥
स्वौजसा सर्वमादधाति यः पापीयांसमनुपदमाहिंसत् सुपुण्यं
पुण्यात्मकं पुण्यं वितानं दाधार देवाय स्वाहा ॥ ३ ॥