This page has not been fully proofread.

पारमात्मिकोपनिषत्
 
मज्ज्ञानाभावगे मोक्षो न सिद्ध्यति कदाचन ।
तस्मात्संसारचक्रेऽस्मिन् भ्राम्यन्ते च सुदुस्तरे ॥
उद्धरेयमिमान् सर्वान् यातनाशतसंकुलान् ।
इति सञ्चिन्त्य भगवान् स्वच्छन्दोपात्तविग्रहः ॥
हित्वौपनिषदं वेषं प्रमाणानामगोचरम् ।
सर्वेषां हर्षदं भक्त्या दृष्टमात्रेण मुक्तिदम् ॥
सर्वकल्याण संपूर्ण गुणराशिसमाश्रयम् ।
सहस्रमुखहरू पादमाददे रूपमद्भुतम् ॥ इति ॥
अतः स्वयं च भगवान् क्रीडात्मकमवासृजत् ।
अवतारस्य सत्यत्वमजिहासन् स्वभावतः ॥
शुद्धसत्त्वमयत्वं च स्वेच्छामात्रेण दासता ।
धर्मज्ञोऽसौ समूहश्च साधुसंरक्षणार्थता ।
इति जन्मरहस्यं यो वेत्ति नास्य पुनर्भवः ॥ इति ॥
 
पाद्मे-
 
उद्भूतायां स मेदिन्यां पूर्ण तद्भूनभोन्तरे ।
जलं तत्कृतमर्यादं व्यवच्छिन्नमभूत्तव ॥
संस्थाप्य पृथिवीमित्थं तदुर्व्याधारसिद्धये ।
दिग्गजानहिराजं च कमठं च न्यवेशयत् ॥
तेषामपि च सर्वेषामाधारत्वेन सादरम् ।
 
अव्यक्तरूपां स्वां शक्तिं युयुजे च दयापरः । इति ॥
 
१६१
 
यः परमात्मा स्वयं लोकं भूरादिसर्वलोकान् अवधारं
 
अधस्ताद्धृतम्
 
U 21