2026-02-08 07:40:17 by ambuda-bot
This page has not been fully proofread.
१६०
"वैष्णव- उपनिषदः
दारुलोहशिलामृत्स्नाशरीरोर्चात्मकः स्मृतः ।
चेतनाचेतनैर्देही परमात्मा भवाम्यहम् ॥
अर्चात्मनावतीर्ण मां जानन्तो हि विमोहिताः ।
कृत्वा दारुशिलाबुद्धिं गच्छन्ति नरकायुतम् ॥
स्वयम्भूनां विमानानामभितो योजनद्वयम् ।
क्षेत्रे पापहरं प्रोक्तं मृतानामपवर्गदम् ॥
योजनं दिव्यदेशानां सिद्धानामर्थमेव च ।
मनुष्याणां विमानानामभितः क्रोशमुत्तमम् ।
गृहमात्रं प्रशस्तं वा गृहाच यत्र विद्यते ॥ इति ।
पुरुषसंहितायां नारदं प्रति सनत्कुमारः --
पुरा नारायणो देवः कृपया परयान्वितः ।
देवतिर्यङ्मनुष्यादीन् वीक्ष्य संसारमध्यगान् ॥
एवं सञ्चिन्तयामास संस्मरन् वैभवं स्वकम् ।
स्वतः प्रमाणवाक्यैश्च दुर्विज्ञानं वदन्ति माम् ॥
अणोरणीयान्महतो महीयान्निर्गुणो गुणी ।
दिग्देशकालावस्थाद्यैरसौ चाभेद्यवैभवः ॥
प्रधीक्षयविहीनश्च सत्यकामो निरञ्जनः ।
विनेन्द्रियेण सर्वज्ञो विना पादेन सर्वगः ॥
अनासोऽनुभवन् गन्धं स्पृशन् सर्वमपाणिकः ।
शृण्वन् श्रुतिं विना शब्दमजिह्वोऽपि लिहन् रसम् ॥
साधनेन विना सर्व साध्यं साधयतेऽन्वहम् ।
तस्मात्सर्वप्रमाणेन सुदुर्ज्ञानतरो ह्यहम् ॥