This page has not been fully proofread.

पारमात्मिकोपनिषत्
 
१९९
 
इत्यादिभगवद्वचनानुरोधेन नित्यविभूतौ पादप्रक्षाळनादिकर्मकरणे
योग्यताभावात् विभूतौ पादप्रक्षाळनाचमनस्नानादिकर्मकरणायोग्यतात्व-
मिच्छन् सुदक्षां सुतरां स्वापकादीनां यथायोग्यं कामितफलप्रदानसमर्थः
 
66
 
"
 
युक्तग्रावा जायते देवकामः " देवतात्वमिच्छन् श्रीवैखानसादिशास्त्रोक्त-
शैलादिप्रतिमरूपे जायते । ग्रावाग्रहणं सुवर्णरजतादीनामप्युपलक्षणम् ।
किञ्च-
 
पिशङ्गरूपस्सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः ।
 
·
 
पिशङ्गरूपः सुवर्णवर्णः सुभरः सुखेन भर्तु शक्यः वयोधाः वयसा
गरुडेन ध्रियत इति वयोधाः वीरशब्देन पूर्वोक्तमन्त्रप्रतिपाद्य एवात्रापि
प्रतिपाद्यते पिशङ्गरूप इत्यादि गुणशिष्टत्वेनोक्तत्वात् सालग्रामपरत्वेन वा
ग्रावापरत्वेन वा वक्तुमयुक्तमित्यवगम्यते ।
 
भारते-
 
सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् ।
 
कृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः ॥
तामर्चयेत्तां प्रणमेत्तां जपेत्तां विचिन्तयेत् ।
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ॥
 
ग्रन्थान्तरे-
 
---
 
द्वीपवर्षविभागेषु तीर्थेष्वायतनेषु च ।
मानुषाश्चात्मना चाहं ग्रामेग्रामे गृहेगृहे ॥
पुंसिपुंसि संभवानि दारुलोहशिलामयः ।
अहं पञ्चोपनिषदः परव्यूहादिषु स्थितः ॥
आविर्भावेषु सर्वेषु स्वसङ्कल्पशरीरवान् ।
आवेशांशावतारेषु पाञ्चभौतिकविग्रहः ॥