2026-02-08 07:40:17 by ambuda-bot
This page has not been fully proofread.
१५८
वैष्णव- उपनिषदः
मुक्तोऽपि भोग भोग्यत्वात्परव्यूहात्मनो हरेः ।
तत्कालसन्निकृष्टे च लक्ष्यत्वाद्विभवात्मनः ॥
विशुद्धैर्यागसंसिद्धैश्चिन्त्यत्त्वादन्तरात्मनः ।
अर्चात्मन्येव सर्वेषामधिकारो निरङ्कुशः ॥
अर्चावतारविषये ममाप्युद्देशतस्तथा ।
उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैरपि ॥
एवं पञ्चप्रकारोऽहमात्मनां पततामधः ।
पूर्वस्मादपि पूर्वस्माज्जायांश्चैवोत्तरोत्तरः ।
सौलभ्यतो जगत्स्वामी सुलभ ह्युत्तरोत्तरः । इति ॥
परत्वादौ सौलभ्याभावात् सर्वसुलभत्वादचवतारः ।
शिलादारु च ताम्रं च रजतं काञ्चनं मणिः ।
उक्तानि कौतुकार्थं तु षड् द्रव्याणि मनीषिभिः ॥ इति ॥
शैलजादिरूपेण विग्रहपरिग्रहादिकं भगवतः प्रतिपादयति इयं
श्रुतिः - क्रीडात्मकमवासृजत् इति ॥
नृसिंहतापनीयोपनिषदि -
---
अथ कस्मादुच्यते वीरमिति यस्मात्स्वमहिम्ना सर्वान् लोकान्
सर्वान् देवान् सर्वानात्मनः सर्वाणि भूतानि विरमति विरामयत्यजस्रं सृजति
विसृजति वासयति यतो वीरः कर्मण्यः सुदक्षो युक्तमावा जायते देवकामः
तस्मादुच्यते वीरमिति ॥ इत्यादि ॥ यतः भक्तसंरक्षणादिहेतुत्वेन वीर :-
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
उत्सीदेयुरिमे लोका न कुर्यो कर्म चेदहम् ।
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥