2026-02-08 07:40:17 by ambuda-bot
This page has not been fully proofread.
66
पारमात्मिकोपनिषत्
कथं त्वमर्चनीयोऽसि मूर्तयः कीदृशास्तु ते ।
वैखानसाः कथं वा स्युः कथं वा पाञ्चरात्रिकाः ॥
श्रीभगवान्-
शृणु पाण्डव तत्सर्वमर्चनाश्रममात्मनः ।
स्थण्डिले पद्मकं कृत्वा साष्टपत्रं सकर्णिकम् ॥
अष्टाक्षरविधानेन अथवा द्वादशाक्षरैः ।
वैदिकैरथवा मन्त्रैर्मनुनोक्तेन वा पुनः ॥
स्थितं मामन्तरे तस्मिन्नर्चयित्वा समाहितः ।
पुरुषं च ततस्सत्यमच्युतं च युधिष्ठिर ॥
अनिरुद्धं च मां प्राहुर्वैखानस विदो जनाः ।
अन्ये त्वेवं विजानन्ति मां राजन् पाञ्चरात्रिकाः ॥
वासुदेवं च राजेन्द्र सङ्कर्षणमथापि च ।
प्रद्युम्नं चानिरुद्धं च चतुर्मूर्ति प्रचक्षते ॥
एताश्चान्याश्च राजेन्द्र संज्ञाभेदेन मूर्तयः ।
विद्धि मेऽर्चान्तराण्येव मामेवं चार्चयेद्बुधः ॥ इति ॥
वैभवं त्ववताराणाम् —
मत्स्यः कूर्मो वराहश्च नारसिंहश्च वामनः ।
१५७
रामो रामश्च रामश्च बुद्धः कल्कीति ते दश ॥ इति ॥
देवशब्दप्रयोगसामर्थ्यात् व्यूहविभवे अभिप्रेते स्वयं इत्यनेन
पञ्चधा पञ्चात्मा" इत्यादिश्रुत्यर्थोऽत्रानुसन्धेयः । पञ्चवेत्यनेन परव्यूह -
विभवान्तर्याम्यर्चावतार इति पञ्चधा प्रतिपादितासु,
व्याप्तिः कान्तिः प्रवेशोऽर्चा तत्क्रियासु निबन्धनाः ।
परत्वेऽप्यधिकं विष्णोर्देवस्य परमात्मनः ॥