2026-02-08 07:40:17 by ambuda-bot
This page has not been fully proofread.
१५६
वैष्णव- उपनिषदः
तदंशाच्छक्तिमन्तोऽन्ये ब्रह्मेशानादयोऽमराः ।
ब्रह्मादिदेवसङ्गेषु स एव पुरुषोत्तमः ॥
स्त्रीप्रायमितरत्सर्वं जगद्ब्रह्म पुरस्सरम् ।
विश्वव्यापकशीलत्वाद्विष्णुरित्यभिधीयते ॥
अचिन्त्यात्मा
न यस्य रूपं न बलप्रभावो न च स्वभावः परमस्य पुंसः ।
विज्ञायते शर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥
भक्तै:-
भक्तैस्तद्भक्तवात्सल्यं तत्पूजास्वनुरञ्जनम् ।
तत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रिया ॥
तदनुस्मरणं नित्यं तदन्यस्य च वर्जनम् ।
नित्यं तदेकशेषत्वं यद्भुक्तेनोपजीवति ॥ इति ॥
भागवतै:-
उत्पत्तिञ्च विनाशञ्च भूतानामागतिं गतिम् ।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥
पञ्चशक्तिमयो विष्णुर्वासुदेवः सनातनः ।
लोकस्थितिमिमां दीर्घा विशालामतिदुस्तराम् ।
पश्यन्नास्ते हृषीकेशः परमे व्योम्नि भास्वति ॥
एवं परत्वमुपपादितम् । सर्वान्तरात्मा इत्यनेन " अन्तः प्रविष्टः
शास्ता जनानां सर्वात्मा "
66
" यस्यात्मा शरीरं यस्य पृथिवी शरीरम् "
इत्याद्यन्तर्यामित्वं स्वयमादिः इत्युक्तत्वात् । दैविकमानुषभेदेन व्यूहो
।
द्विविधः ।