This page has not been fully proofread.

पारमात्मिकोपनिषत्
 
"
 
१५५
 
अतः परं परब्रह्मणो नारायणस्य परत्वान्तर्यामित्वादिप्रतिपादनमुखेन
अर्चावतारादिकं प्रतिपादयति — स्वयमादिः इत्यादिना । स्वयमित्यनेन
" सदेव सोम्येदमग्र आसीत् ", " एकमेवाद्वितीयम् " इति श्रुतेरभिन्न-
निमित्तोपादानकारणभूतं सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादिभिः सत्यत्व-
ज्ञानत्वानन्तत्वविशिष्टं " आनन्दो ब्रह्म " इति निरतिशयानन्दस्वरूपं
 
66
 
61
 
" नारायणपरं ब्रह्म" इत्यादिभिः परंब्रह्मपरंतत्त्वपरंज्योतिः परमात्मादिशब्द-
वाच्यं नारायणमेवाह - स्वयमिति ॥
 
नारस्त्विति सर्वपुंसां समूहः परिकीर्तितः ।
 
गतिरालम्बनं तस्य तेन नारायणः स्मृतः ॥ इति ॥
अखिलजगत्कारणभूतो नारायण एवादिरित्युच्यते । यद्वा-
 
आदिशब्देन परत्वम् ।
 
परत्वं नाम
 
वैकुण्ठे तु परे लोके श्रिया सार्धं जगत्पतिः ।
आस्ते विष्णुरचिन्त्यात्मा भक्तैर्भागवतैः सह ॥
 
परे लोके --
 
अतः परं चतुर्थः स्यादित्यादि ॥
 
श्रिया सार्धम् -
 
नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी ।
यथा सद्मगतो विष्णुस्तथैवेयं द्विजोत्तम ॥
 
जगत्पतिः
 
-
 
पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम् ।
 
एक एव जगत्स्वामी शक्तिमानच्युतः प्रभुः ॥