This page has not been fully proofread.

१५४
 
वैष्णव- उपनिषदः
 
66
 
साधारः हृदयकमलाद्याधारः । साधिष्ठान: " तद्विष्णोः परमं पदम् " इति
श्रुतेः परमपदाद्यदिष्ठानसहितः । नाधिष्ठानः अवान्तरकत्वेनाधिष्ठान भूतो न
भवति । यद्वा --- धारकान्तररहितः एवंभूतस्य परमात्मनः पादाय पातः
प्रणतिः कं कं पुरुषमपि पदे पदे परमात्मना संपादिते ।
 
आमोदश्च प्रमोदश्च संमोदस्तदनन्तरम् ।
वैकुण्ठमिति विज्ञेयास्तेऽन्योन्यमुपरि स्थिताः ॥
अतः परं चतुर्थः स्याल्लोकः परमभास्वर: ।
वासुदेवस्य सुमहत्तद्दीप्तमजरावृतम् ॥
द्वादशावरणोपेतं पूर्णचन्द्रायुतप्रभम् ।
सर्वतेजोमयं भास्वदनिर्देश्यं सुरैरपि ॥
आनन्दं नाम तं लोकं परमानन्दमद्भुतम् ।
यस्मिन् कस्मिन् कुले जाता यत्र कुत्र निवासिनः ।
 
वासुदेवरता नित्यं यमलोकं न यान्ति ते ॥ इति ॥
 
पदे पदे आमोदादिपदे पदान्तरे वा
 
तापयतीति शेषः ।
 
नित्यमुक्तबन्धैश्च क्रीडते तुभ्यम् ॥ १० ॥
 
इति पञ्चमोऽनुवाकः ।
 
षष्ठोऽनुवाकः
 
स्वयमादिः सर्वान्तरात्मा देवस्य स्वयं क्रीडात्मकमवासृजत्
 
यः स्वयं लोकमवधारमवधारयन् स्वाहा ॥ १ ॥