2026-02-08 07:39:35 by ambuda-bot
This page has not been fully proofread.
२
योग-उपनिषदः
तां जीवरूपिणीं ध्यायेज्योतिष्ठं मुक्तिहेतवे ।
स्वाधिष्ठानं द्वितीयं स्याच्चक्रं तन्मध्यगं विदुः ॥ ७ ॥
पश्चिमाभिमुखं लिङ्गं प्रवालाङ्कुरसन्निभम् ।
तत्रोद्रीयाणिपीठेषु तं ध्यात्वाकर्षयेज्जगत् ॥ ८ ॥
तृतीयं नाभिचक्रं स्यात्तन्मध्ये तु जगत् स्थितम् ।
पञ्चावर्ती मध्यशक्तिं चिन्तयेद्विद्युदाकृति ॥ ९ ॥
तां ध्यात्वा सर्वसिद्धीनां भाजनं जायते बुधः ।
चतुर्थ हृदये चक्रं विज्ञेयं तदधोमुखम् ॥ १० ॥
ज्योतीरूपं च तन्मध्ये हंसं ध्यायेत् प्रयत्नतः ।
तं ध्यायतो जगत् सर्वं वश्यं स्यान्नात्र संशयः ॥ ११ ॥
पञ्चमं कण्ठचक्रं स्यात् तत्र वामे इडा भवेत् ।
दक्षिणे पिङ्गला ज्ञेया सुषुम्ना मध्यतः स्थिता ॥ १२ ॥
तत्र ध्यात्वा शुचि ज्योतिः सिद्धीनां भाजनं भवेत् ।
षष्ठं च तालुकाचक्रं घण्टिकास्थानमुच्यते ॥ १३ ॥
दशमद्वारमार्ग तद्राजदन्तं च तज्जगुः ।
तत्र शून्ये लयं कृत्वा मुक्तो भवति निश्चितम् ॥ १४ ॥
भ्रूचक्रं सप्तमं विद्याद्विन्दुस्थानं च तद्विदुः ।
भ्रुवोर्मध्ये वर्तुलं च ध्यात्वा ज्योतिः प्रमुच्यते ॥ १५ ॥
अष्टमं ब्रह्मरन्धं स्यात् परं निर्वाणसूचकम् ।
तं ध्यात्वा सूतिकाग्रामं धूमाकारं विमुच्यते ॥ १६ ॥
तच्च जालन्धरं ज्ञेयं मोक्षदं नीलचेतसम् ।
नवमं व्योमचक्रं स्यादत्रैः षोडशभिर्युतम् ॥ १७ ॥