This page has been fully proofread once and needs a second look.

<page>
<subtitle>

 
</subtitle>
<ignore>
१. योग - उपनिषदः
 
</ignore>
<title>
योगराजोपनिषत्
 
.
 
</title>
<verse>
योगराजं प्रवक्ष्यामि योगिनां योगसिद्धये ।

मन्त्रयोगो लयश्चैव राजयोगो हठस्तथा ॥ १ ॥
</verse>
<verse>
योगश्चतुर्विधः प्रोक्तो योगिभिस्तत्त्वदर्शिभिः ।

आसनं प्राणसंरोधो ध्यानं चैव समाधिकः ॥ २ ॥
</verse>
<verse>
एतच्चतुष्टयं विद्धि सर्वयोगेषु सम्मतम् ।

ब्रह्मविष्णुशिवादीनां मन्त्रं जाप्यं विशारदैः ॥ ३ ॥
</verse>
<verse>
साध्यते मन्त्रयोगस्तु वत्सराजादिभिर्यथा ।

कृष्णद्वैपायनाद्यैस्तु साधितो लयसंज्ञितः ॥ ४ ॥
</verse>
<verse>
नवस्वेव हि चक्रेषु लयं कृत्वा महात्मभिः ।

प्रथमं ब्रह्मचक्रं स्यात् त्रिरावृत्तं भगाकृति ॥ ५ ॥
</verse>
<verse>
अपाने मूलकन्दाख्यं कामरूपं च तज्जगुः ।
 
U 1
 

तदेव वह्निकुण्डं स्यात् तत्त्वकुण्डलिनी तथा ॥ ६ ॥
 
</verse>
</page>