2026-02-09 04:56:26 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>नृसिंहषट्चक्रोपनिषत्
</ignore>
<ignore>८५
</ignore>
<p>अथ किं बाह्यं वलयम् । षडैड्वै बाह्यानि वलयानि भवन्ति । यदाचक्रं
यदात्मा तत्प्रथमस्य यत्सुचक्रं यत्प्रियात्मा तद्द्वितीयस्य यन्महाचक्रं
यज्ज्योतिरात्मा तत्तृतीयस्य यत्सकललोकरक्षणचक्रं यन्मायात्मा तच्चतुर्थस्य
यदाचक्रं यद्योगात्मा तत्पञ्चमस्य यदसुरान्तकचक्रं यत्सत्यात्मा तत् षष्ठस्य ।
तदेतानि षण्णां नारसिंहचक्राणां षट् बाह्यानि वलयानि भवन्ति ॥
चै</p>
<p>क्वैतानि न्यस्यानि । यत्प्रथमं तद्धृदये यdद्वितीयं तच्छिरसि यत्तृतीयं
तच्छिखायां यच्चतुर्थेथं तत्सर्वेष्वङ्गेषु यत्पञ्चमं तत्सर्वेषु <add>[?]</add> यत् षष्ठं तत्सर्वेषु
देशेषु । य एतानि नारसिंहानि चक्राण्येतेष्वङ्गेषु बिभृयात् तस्यानुष्टुप्
सिध्यति । तं भगवान् नृसिंहः प्रसीदति । तस्य कैवल्यं सिध्यति । तस्य
सर्वे लोकाः सिध्यन्ति । तस्य सर्वे जनाः सिध्यन्ति । तस्मादेतानि षण्णां
नारसिंह चक्राण्यङ्गेषु न्यस्यानि भवन्ति । पवित्रं च एतत्तस्य न्यसनम् ।
न्यसनान्नृसिंहानन्दी भवति । कर्मण्यो भवति । ब्रह्मण्यो भवति ।
अन्यसनान्न नृसिंहानन्दी भवति । न कर्मण्यो भवति । तस्मादेतत्पवित्रं
तस्य न्यसनम् ॥
</p>
<p>यो वा एतं नारसिंहं चक्रमधीते स सर्वेषु वेदेष्वधीतो भवति ।
स सर्वेषु यज्ञेषु याजको भवति । स सर्वेषु तीर्थेषु स्नातो भवति ।
स सर्वेषु मन्त्रेषु सिद्धो भवति । स सर्वत्र शुद्धो भवति । स सर्वरक्षो
भवति । भूतपिशाचशाकिनीप्रेतवंताकनाशको भवति । स निर्भयो भवति ।
तदेतन्नाश्रद्दधानाय प्रब्रूयात्तदेतन्नाश्रद्दधानाय प्रब्रूयादिति ॥
</p>
<trailer>इत्याथर्वणीये नृसिंहषट्चक्रोपनिषत् समाप्ता
</trailer>
</page>
<ignore>नृसिंहषट्चक्रोपनिषत्
<ignore>८५
<p>अथ किं बाह्यं वलयम् । ष
यदात्मा तत्प्रथमस्य यत्सुचक्रं यत्प्रियात्मा तद्द्वितीयस्य यन्महाचक्रं
यज्ज्योतिरात्मा तत्तृतीयस्य यत्सकललोकरक्षणचक्रं यन्मायात्मा तच्चतुर्थस्य
यदाचक्रं यद्योगात्मा तत्पञ्चमस्य यदसुरान्तकचक्रं यत्सत्यात्मा तत् षष्ठस्य ।
तदेतानि षण्णां नारसिंहचक्राणां षट् बाह्यानि वलयानि भवन्ति ॥
चै
<p>क्वैतानि न्यस्यानि । यत्प्रथमं तद्धृदये यdद्वितीयं तच्छिरसि यत्तृतीयं
तच्छिखायां यच्चतुर्
देशेषु । य एतानि नारसिंहानि चक्राण्येतेष्वङ्गेषु बिभृयात् तस्यानुष्टुप्
सिध्यति । तं भगवान् नृसिंहः प्रसीदति । तस्य कैवल्यं सिध्यति । तस्य
सर्वे लोकाः सिध्यन्ति । तस्य सर्वे जनाः सिध्यन्ति । तस्मादेतानि षण्णां
नारसिंह