2026-02-08 07:39:59 by ambuda-bot
This page has not been fully proofread.
८४
वैष्णव- उपनिषदः
नृसिंहषट्चकोपनिषत्
ॐ देवा ह वै सत्यं लोकमायंस्तं प्रजापतिमपृच्छन्नार सिंहचकन्नो
ब्रूहीति । तान्प्रजापतिर्नारसिंहचक्रमवोचत् । षड्डु नारसिंहानि चक्राणि
भवन्ति । यत् प्रथमं तच्चतुररं यद्वितीयं तच्चतुररं यत्तृतीयं तदष्टारं यच्चतुर्थे
तत्पञ्चारं यत्पञ्चमं तत्पश्ञ्चारं यत् षष्ठं तदष्टारं तदेताति षडेव नारसिंहानि
चक्राणि भवन्ति ॥
अथ कानि नामानि भवन्ति । यत् प्रथमं तदाचक्रं यद्वितीयं
तत्सुचक्रं यत्तृतीयं तन्महाचक्रं यच्चतुर्थं तत्सकललोकरक्षणचक्रं यत्पञ्चमं
तयूतचकं यद्वै षष्ठं तदसुरान्तकचक्रं तदेतानि षडेव नारसिंहचक्रनामानि
भवन्ति ॥
अथ कानि त्रीणि वलयानि भवन्ति । यत्प्रथमं तदान्तरवलयं
भवति । यद्दितीयं तन्मध्यमं वलयं भवति । यत् तृतीयं तद्वाह्यं वलयं
भवति । तदेतानि त्रीण्येव वलयानि भवन्ति । यदा तद्वैतद्वीजं यन्मध्यमं
तां नारसिंह गायत्रीं यद्वाह्यं तन्मन्त्रः ॥
अथ किमान्तरं वलयम् । षड्डान्तराणि वलयानि भवन्ति ।
यन्नारसिंहं तत्प्रथमस्य यन्महालक्ष्म्यं तद्वितीयस्य यत्सारस्वतं तत्तृतीयस्य
यस्य यत्कामं देवं तच्चतुर्थस्य यत् प्रणवं तत्पञ्चमस्य यत्क्रोधदैवतं तत्
षष्ठस्य । तदेतानि षण्णां नारसिंहचक्राणां षडान्तराणि वलयानि भवन्ति ॥
अथ किं मध्यमं वलयम् । षडै मध्यमानि वलयानि भवन्ति ।
यन्नारसिंहाय तत्प्रथमस्य यद्विद्महे तद्वितीयस्य यद्वज्रनखाय तत्तृतीयस्य
यद्धीमहि तच्चतुर्थस्य यत्तन्नस्तत्पञ्चमस्य यत्सिंहः प्रचोदयादिति तत् षष्ठस्य ।
तदेतानि षण्णां नारसिंहचक्राणां षण्मध्यमानि वलयानि भवन्ति ॥