2026-02-26 05:43:05 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>नारायणोत्तरतापिनीयोपनिषत्
</ignore>
<ignore>८३
</ignore>
<p>सर्वेषां वस्तूनां मुख्यवस्तु भवति । ॐ नमो नारायणादन्यो मन्त्रः
नारायणादन्योपास्तिर्नास्ति । नान्यन्नारायणादुपासितव्यम् । सर्वेवं नारायण
एव भवतीति विज्ञायते । योऽधीते नित्यं सर्वान् कामानवाप्नोति । स
ब्रह्महत्यायाः पूतो भवति । सुरापानात् पूतो भवति । स्वर्णस्तेयात् पूतो
भवति । गुरुतल्पगमनात् पूतो भवति । अगम्यागमनात् पूतो भवति ।
अभक्ष्यभक्षात् पूतो भवति । स उपपातकमहापातकेभ्यः पूतो भवति ।
सर्ववेदमधीयानो भवति । सर्वऋक्रतुफलं प्राप्नोति । सर्वकर्मकर्ता भवति ।
चतुः समुद्रपर्यन्तभूदानफलं प्राप्नोति । द्विजोत्तमो भवति । चतुर्वर्गफलं
प्राप्नोति । ब्रह्मचारी ज्ञानवान् भवति । गृही पुत्रपौत्रमहैश्वर्यवान् भवति ।
स
सन्न्यासी मोक्षवान् भवति ॥
</p>
<verse>पठनाच्छ्रवणाद्वाऽपि सर्वान् कामानवाप्नुयात् ।
नारायणप्रसादेन वैकुण्ठपदमश्नुते ॥
</verse>
<p>इति स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥
</p>
<verse>वेदाक्षराणि यावन्ति पठितानि द्विजोत्तमैः ।
तावन्ति हरिनामानि कीर्तितानि न संशयः ॥
</verse>
<verse>नारायण हरे कृष्ण वासुदेव जगद्गुरो ।
मुकुन्दाच्युत देवेश महाविष्णो नमोऽस्तु ते ॥
</verse>
<verse>भूतानि तत्त्वसंज्ञानि कूटस्थोऽक्षरसंज्ञितः ।
उत्तमश्चापि पुरुषो नारायण इतीर्यते ॥
</verse>
<trailer>इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये तृतीयः खण्डः
</trailer>
<trailer>इति नारायणोत्तरतापिनीयोपनिषत् समाप्ता
</trailer>
</page>
<ignore>नारायणोत्तरतापिनीयोपनिषत्
<ignore>८३
<p>सर्वेषां वस्तूनां मुख्यवस्तु भवति । ॐ नमो नारायणादन्यो मन्त्रः
नारायणादन्योपास्तिर्नास्ति । नान्यन्नारायणादुपासितव्यम् । सर्
एव भवतीति विज्ञायते । योऽधीते नित्यं सर्वान् कामानवाप्नोति । स
ब्रह्महत्यायाः पूतो भवति । सुरापानात् पूतो भवति । स्वर्णस्तेयात् पूतो
भवति । गुरुतल्पगमनात् पूतो भवति । अगम्यागमनात् पूतो भवति ।
अभक्ष्यभक्षात् पूतो भवति । स उपपातकमहापातकेभ्यः पूतो भवति ।
सर्ववेदमधीयानो भवति । सर्व
चतुः