2026-02-26 05:40:27 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>८२
</ignore>
<ignore>वैष्णव- उपनिषदः
</ignore>
<metadata>div.n = 2</metadata>
<heading>द्वितीयः खण्डः
</heading>
<p>स होवाच भगवान् ब्रह्मा नारायणः परवस्तु भवतीति विज्ञायते ।
</p>
<verse>सच्चिदानन्दरुपाय ज्ञानायामिततेजसे ।
परब्रह्मस्वरूपाय नारायण नमोऽस्तु ते ॥
</verse>
<verse>नित्यशुद्धाय बुद्धाय नित्यायाद्वैतरूपिणे ।
आनन्दायात्मरूपाय नारायण नमोऽस्तु ते ॥
</verse>
<p>ओं नमो भगवते श्रीमन्नारायणाय महाविष्णवे अमितबलपराक्रमाय
शङ्खचक्रगदाधराय लक्ष्मीसमेताय गरुडवाहनाय दशावताराय सर्वदुष्टदै -
त्यदानवसंहरणाय शिष्टप्रतिपालकाय परब्रह्मरूपाय महात्मने परमपुरुषाय
पुण्डरीकाक्षाय पुराणपुरुषाय शुद्धबुद्धाय सच्चिदानन्दस्वरूपाय महात्मने
घृणिः सूर्य आदित्य ॐ नमो नारायणाय सहस्रार हुं फट् स्वाहा ॥
</p>
<verse>नारायणाय शान्ताय शाश्वताय मुरारये ।
यज्ञेश्वराय यज्ञाय शरण्याय नमो नमः ॥
</verse>
<p>स होवाच भगवान् ब्रह्मा सर्वं विश्वमिदं नारायणः य एवं
वेद । इत्युपनिषत् ॥
</p>
<trailer>इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये द्वितीयः खण्डः
</trailer>
<metadata>div.n = 3</metadata>
<heading>तृतीयः खण्डः
</heading>
<p merge-next="true">स होवाच भगवान् ब्रह्मा नारायणः परब्रह्मेति य एवं वेद ।
नारायणात्मा वेदं सर्वं निर्विकारं निरञ्जनवस्तु प्रतिपाद्यते । स नारायणो
विराट्पुरुषो भवति । देवानां वासवो भवति । इन्द्रियाणां मनो भवति ।
</p>
</page>
<ignore>८२
<ignore>वैष्णव- उपनिषदः
<metadata>div.n = 2</metadata>
<heading>द्वितीयः खण्डः
<p>स होवाच भगवान् ब्रह्मा नारायणः परवस्तु भवतीति विज्ञायते ।
<verse>सच्चिदानन्दरुपाय ज्ञानायामिततेजसे ।
परब्रह्मस्वरूपाय नारायण नमोऽस्तु ते ॥
<verse>नित्यशुद्धाय बुद्धाय नित्यायाद्वैतरूपिणे ।
आनन्दायात्मरूपाय नारायण नमोऽस्तु ते ॥
<p>ओं नमो भगवते श्रीमन्नारायणाय महाविष्णवे अमितबलपराक्रमाय
शङ्खचक्रगदाधराय लक्ष्मीसमेताय गरुडवाहनाय दशावताराय सर्वदुष्टदै