This page has not been fully proofread.

८२
 
वैष्णव- उपनिषदः
 
द्वितीयः खण्डः
 
स होवाच भगवान् ब्रह्मा नारायणः परवस्तु भवतीति विज्ञायते ।
 
सच्चिदानन्दरुपाय ज्ञानायामिततेजसे ।
 
परब्रह्मस्वरूपाय नारायण नमोऽस्तु ते ॥
नित्यशुद्धाय बुद्धाय नित्यायाद्वैतरूपिणे ।
 
आनन्दायात्मरूपाय नारायण नमोऽस्तु ते ॥
 
ओं नमो भगवते श्रीमन्नारायणाय महाविष्णवे अमितबलपराक्रमाय
शङ्खचक्रगदाधराय लक्ष्मीसमेताय गरुडवाहनाय दशावताराय सर्वदुष्टदै -
त्यदानवसंहरणाय शिष्टप्रतिपालकाय परब्रह्मरूपाय महात्मने परमपुरुषाय
पुण्डरीकाक्षाय पुराणपुरुषाय शुद्धबुद्धाय सच्चिदानन्दस्वरूपाय महात्मने
घृणिः सूर्य आदित्य ॐ नमो नारायणाय सहस्रार हुं फट् स्वाहा ॥
नारायणाय शान्ताय शाश्वताय मुरारये ।
 
यज्ञेश्वराय यज्ञाय शरण्याय नमो नमः ॥
 
स होवाच भगवान् ब्रह्मा सर्वं विश्वमिदं नारायणः य एवं
 
वेद । इत्युपनिषत् ॥
 
इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये द्वितीयः खण्डः
 
तृतीयः खण्डः
 
स होवाच भगवान् ब्रह्मा नारायणः परब्रह्मेति य एवं वेद ।
नारायणात्मा वेदं सर्वं निर्विकारं निरञ्जनवस्तु प्रतिपाद्यते । स नारायणो
विराट्पुरुषो भवति । देवानां वासवो भवति । इन्द्रियाणां मनो भवति ।