This page has been fully proofread once and needs a second look.

<page>
<ignore>
नारायणोत्तरतापिनीयोपनिषत्
 
८१
 
</ignore>
<verse>
अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः ।
तमऋ

तमक्र
तुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥
</verse>
<verse>
वासनाद्वासुदेवस्य वासितं हि जगत्त्रयम् ।
 

सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥
 
</verse>
<p>
भूश्च नारायण: । भुवश्च नारायणः । सुवश्च नारायण: । महश्व

नारायणः । जनश्च नारायणः । तपश्च नारायणः । सत्यं च नारायणः ।

नारायणः परं ब्रह्म । नारायण एवेदं सर्वम् । नारायणान्न किञ्चिदस्ति ।

सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । तस्माद्वा

एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अमेरापः ।

अद्भयः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः ।

नारायणः सर्वपुरुष एवेदं परब्रह्म । नारायणः सर्वभूतान्तर्याम्यात्मा । आत्मेदं

सर्व नारायण:वं नारायणः । नारायणः स्वयं ज्योतिः । तस्मात्प्रकाशात्मा ।
 
</p>
<verse>
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ।
 

तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ॥
</verse>
<verse>
पाशबद्धः स्मृतो जीवः पाशमुक्तः सनातनः ।

तुषेण बद्धो त्व्रीहिः स्यात्तुषाभावेन तण्डुलः ॥
</verse>
<verse>
परब्रह्म स्वयं चात्मा साक्षान्नारायणः स्मृतः ।

नारायणमनादिं च योगनिद्रापरायणम् ॥
</verse>
<verse>
जाग्रत्स्वप्नसुषुप्तीषु सर्वकालव्यवस्थितम् ।

नारायणं महात्मानं महाध्यानपरायणम् ।

सर्ववेदान्तसंलक्ष्यं तद्ब्रह्मेत्यभिधीयते ॥
 
</verse>
<verse>
स होवाच भगवान् नारायण एवेदं सर्वं प्रतिष्ठितं य एवं वेद ।
 

इत्युपनिषत् ॥
 
</verse>
<trailer>
इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये प्रथमः खण्डः
 
1
 
</trailer>
<ignore>
U 11
 
</ignore>
</page>