2026-02-08 07:39:58 by ambuda-bot
This page has not been fully proofread.
नारायणोत्तरतापिनीयोपनिषत्
८१
अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः ।
तमऋतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥
वासनाद्वासुदेवस्य वासितं हि जगत्त्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥
भूश्च नारायण: । भुवश्च नारायणः । सुवश्च नारायण: । महश्व
नारायणः । जनश्च नारायणः । तपश्च नारायणः । सत्यं च नारायणः ।
नारायणः परं ब्रह्म । नारायण एवेदं सर्वम् । नारायणान्न किञ्चिदस्ति ।
सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । तस्माद्वा
एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अमेरापः ।
अद्भयः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः ।
नारायणः सर्वपुरुष एवेदं परब्रह्म । नारायणः सर्वभूतान्तर्याम्यात्मा । आत्मेदं
सर्व नारायण: । नारायणः स्वयं ज्योतिः । तस्मात्प्रकाशात्मा ।
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ।
तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ॥
पाशबद्धः स्मृतो जीवः पाशमुक्तः सनातनः ।
तुषेण बद्धो त्रीहिः स्यात्तुषाभावेन तण्डुलः ॥
परब्रह्म स्वयं चात्मा साक्षान्नारायणः स्मृतः ।
नारायणमनादिं च योगनिद्रापरायणम् ॥
जाग्रत्स्वमसुषुप्तीषु सर्वकालव्यवस्थितम् ।
नारायणं महात्मानं महाध्यानपरायणम् ।
सर्ववेदान्तसंलक्ष्यं तद्ब्रह्मेत्यभिधीयते ॥
स होवाच भगवान् नारायण एवेदं सर्वं प्रतिष्ठितं य एवं वेद ।
इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये प्रथमः खण्डः
1
U 11