2026-02-26 02:02:59 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>८०</ignore>
<ignore>वैष्णव- उपनिषदः</ignore>
<ignore>-</ignore>

वसिष्ठवालखिल्यविश्वामित्रकश्यपात्रिभरद्वाजाङ्गीरसजामदग्निगौतमागस्त्यजा-
बालिकपिला द्वादशदलाः । मत्स्यकूर्मवराहनारसिंहवामनरामरामकृष्णबुद्ध-
कल्किसद्योजातवामदेवा अघोरतत्पुरुषेशानपरमेश्वराः षोडशदलाः । शंखचक्र-
गदापद्मखड्गश्रीवत्सकौस्तुभवनमालादिकिरीटकुण्डलकेयूरहाराङ्गदशार्ङ्गिशर-
नन्दकपद्मवेणुबर्हिपिञ्छशेषानन्तगरुडविष्वक्सेनब्रह्माणश्चतुर्विंशतिदलाः केश-
वादिचतुर्विंशत्यनुक्रमम् । हरिश्रीकृष्णमुकुन्दकुमुदाक्षपुण्डरीकाक्षधामकशङ्ख-
वर्णसर्वनेत्रसुखसुप्रतीका द्वात्रिंशद्दलाः । ऐरावतपुण्डरीकवामनकुमुदाञ्जनपुष्प-
दन्तसार्वभौमसुप्रतीकाक्षाश्चतुरश्रदेवताः । ॐ नमो नारायणायाष्टाक्षरसंज्ञा-
वरणदेवतापूजा कर्तव्या । स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥

<trailer>इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये षष्ठः खण्डः</trailer>
<trailer text="END">इति नारायणपूर्वतापिनीयोपनिषत् समाप्ता</trailer>

नारायणोत्तरतापिनीयोपनिषत्

<metadata>div.n = 1</metadata>
<heading>प्रथमः खण्डः</heading>

स होवाच भगवान् ब्रह्मा आनन्दं ब्रह्मणो विद्वान् सच्चिदानन्दस्वरूपो
भवति ।

<verse>द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥</verse>
<verse>यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ।</verse>
</page>