This page has not been fully proofread.

सरः ]
 
29
 
द्रव्यसाधनम्
 
* 1 अतिमन्दः ।
 
सर्वार्थसिद्धिः
 
आनन्ददायिनी
 
अतिमन्द इति - बौद्धसमयप्रसिद्धसत्वक्षाणिकत्वव्याप्तिभङ्गप्रसङ्गात्
तेनैव न्यायेन सर्ववस्तुस्थायित्वस्यापि प्रसंगादिति भावः ।
 
भावप्रकाशः
 
इति नित्यतत्वाभ्युपगमाद्यर्थोदाहृतबुद्धवाक्यमाभासोपपत्तिमूलमिति
सुव्यक्तं इति; एकं वस्तु नित्यमभ्युपगच्छतः
 

 
क्षणिकत्वसाधक-
सत्वानुमानं विरुद्धं स्यादिति च आचार्यसूक्तिरिह भाव्या। अत एव
• अस्ति सत्व उपपादकः' इति 'भारं वो भिक्षवो देशयिष्यामि
भारादानं भारनिक्षेपं भारहारं च । तत्र भारं पञ्चोपादानस्कन्धाः ।
भारादानं तृप्तिः । भारनिक्षेपो मोक्षः । भारहारः पुद्गलाः । इति ।
एवं भारहारः कतमः पुद्गल ? योऽसावायुष्मन् एवं नामा एवंजातिः
एवमाहारः एवं सुखदुःखं प्रति संवेदी एवं दीर्घायुः' इति । ' रूपं
भदन्त नाहं, वेदनासंज्ञासंस्कारो विज्ञानं भदन्त नाहं, एवमेतद्भिक्षो
रूपं न त्वं वेदनासंज्ञासंस्कारो विज्ञानं न त्वं ' ।
 
इत्यादि बुद्धोपदेशवाक्यानां तत्वसंग्रहे-
 
आगमार्थविरोधे तु पराक्रान्तं मनीषिभिः
नास्तिक्यपरिहारार्थं चित्रा वाचो दयावतः ।
समुदायादिचित्तेन भारहारादिदेशना
 
विशेषप्रतिषेधश्च तद्दृष्टीन् प्रति राजते ॥
 
इति शान्तरक्षितेन नित्यात्मतत्वबोधतात्पर्यकत्वाभावोक्तिस्संगच्छते ।
* ! अतिमन्द इति - एतेन - " कामेऽष्टद्रव्यकोऽणुरशब्दः ।
 
*'
 
रूपधातुस्वरूपमुक्तं — कामे – कामधातौ ।
– कामे— कामधातौ । अष्टद्रव्यकोऽणुः-
 
--
 
-रूप-